455

कफजरक्तजसन्निपातजमसूरिकालक्षण.

कफाद्घनस्थूलतरातिशीतलाश्चिरप्रपाकाः शिशिरज्वरान्विताः ।
प्रवालरक्ता बहुरक्तसंभवाः समस्तदोषैरखिलोग्रवेदनाः ॥ ४० ॥

भावार्थः--The Hindi commentary was not digitized.

मसूरिका के असाध्य लक्षण.

शराववन्निम्नमुखाः सकर्णिका विदग्धवन्मण्डलमण्डिताश्च याः ।
घनातिरक्तासितवक्त्रविस्तृताः ज्वरातिसारोद्गतशूलसंकुलाः ॥ ४१ ॥
विदाहकंपातिरुजातिसारकात्यरोचकाध्मानतृषातिहिक्कया ।
भवंत्यसाध्याः कथितैरुपद्रवैरुपद्रुताःश्वाससकासनिष्ठुरैः ॥ ४२ ॥

भावार्थः--The Hindi commentary was not digitized.

मसूरिका चिकित्सा.

विचार्य पूर्वोद्गतलक्षणेष्वलं विलंघनानंतरमेव वाममेत् ।
सनिंबयष्ठीमधुकाम्बुभिर्वरं त्रिवृत्तथोद्यत्सितया विरेचयेत् ॥ ४३ ॥

भावार्थः--The Hindi commentary was not digitized.

पथ्यभोजन.

समुद्गयूषैरपि षष्ठिकोदनं सतिक्तशाकैर्मधुरैश्च भोजयेत् ।
सुशीतलद्रव्यविपक्वशीतलां पिबेद्यवागूमथवा घृतप्लुताम् ॥ ४४ ॥