5

भावार्थः--The Hindi commentary was not digitized.

ग्रंथरचनाका उद्देश

नैवातिवाक्पटुतया न च काव्यदर्पा--
न्नैवान्यशास्त्रमदभंजनहेतुना वा
किंतु स्वकीयतप इत्यवधार्य वर्य--
माचार्यमार्गमधिगम्य विधास्यते तत् ॥ १२ ॥

भावार्थः--The Hindi commentary was not digitized.

स्वाध्यायमाहुरपरे तपसां हि मूलं
मन्ये च वैद्यवरवत्सलताप्रधानम्
तस्मात्तपश्चरणमेव मया प्रयत्ना--
दारभ्यते स्वपरसौख्यविधायि सम्यक् ॥ १३ ॥

भावार्थः--The Hindi commentary was not digitized.

दुर्जननिंदा ।

अत्रापि संति बहवः कुटिलस्वभावा
दुर्दृष्टयो द्विरसनाः कुमतिप्रयुक्ताः
छिद्राभिलाषनिरताः परवाधकाश्च
घोरोरगैरुपमिताः पुरुषाधमास्ते ॥ १४ ॥

भावार्थः--The Hindi commentary was not digitized.