6
केचित्पुनः स्वगृहमान्यगुणाः परेषां
दुष्यंत्यशेषविदुषां न हि तत्र दोषः
पापात्मनां प्रकृतिरेव परेष्वसूया--
पैशुन्यवाक्परुषलक्षणलक्षितानाम् ॥ १५ ॥

भावार्थः--The Hindi commentary was not digitized.

केचिद्विचाररहिताः प्रथितप्रतापाः
साक्षात्पिशाचसदृशाः प्रचरंति लोके
तैः किं यथाप्रकृतमेव मया प्रयोज्यं
मात्सर्यमार्यगुणवर्यमिति प्रसिद्धम् ॥ १६ ॥

भावार्थः--The Hindi commentary was not digitized.

आचार्यका अंतरंग ।

एवं विचार्य शिथिलीकृतमत्सरोऽहं
शास्त्रं यथाधिकृतमेवमुदाहरिष्ये
सर्वज्ञवक्त्रनिसृतं गणदेवलब्धं
पश्चाम्महामुनिपरंपरयावतीर्णम् ॥ १७ ॥

भावार्थः--The Hindi commentary was not digitized.

1
  1. मात्सर्यमार्यगणवर्ज्यमिति प्रसिद्धं इति पाठांतरं ।

    सत्पुरुष मात्सर्वको छोडें ऐता लोकमें प्रसिद्ध है ।