9

वैद्यशास्त्रका प्रधानध्येय ।

लोकोपकारकरणार्थमिदं हि शास्त्रं
शास्त्रप्रयोजनमपि द्विविधं यथावत्
स्वस्थस्य रक्षणमथामयमोक्षणं च
संक्षेपतः सकलमेव निरूप्यतेऽत्र ॥ २४ ॥

भावार्थः--The Hindi commentary was not digitized.

लोकशद्बका अर्थ

जीवादिकान् सपदि यत्र हि सत्पदार्थान्
सस्थावरप्रवरजंगमभेदभिन्नान्
आलोकयंति निजसद्गुणजातिसत्वान्
लोकोयमित्यभिमतो मुनिभिः पुराणैः ॥ २५ ॥

भावार्थः--The Hindi commentary was not digitized.

चिकित्साके आधार ।

सिद्धांततः प्रथितजीवसमासभेदे
पर्याप्तिसंज्ञिवरपंचविधेंद्रियेषु
तत्रापि धर्मनिरता मनुजाः प्रधानाः
क्षेत्रे च धर्मबहुले परमार्थजाताः ॥ २६ ॥

भावार्थः--The Hindi commentary was not digitized.