504

त्रिविधदंश व स्वार्पितलक्षण.

दंशमत्र फणिनां त्रिविधं स्यात् स्वर्पितं रदितमुद्विहितं च ।
स्वर्पितं सविषदंतपदैरेकद्विकत्रिकचतुर्भिरिह स्यात् ॥ ८२ ॥
तन्निमग्नदशनक्षतयुक्तं शोफवद्विषमतीव्रविषं स्यात् ।
तद्विषं विषहरैरतिशीघ्रं नाशयेद्दशनकल्पमशेषम् ॥ ८३ ॥

भावार्थः--The Hindi commentary was not digitized.

रचित रदित लक्षण.

लोहितासितसितद्युतिराजीराजितं श्वयथुमच्च यदन्यत् ।
तद्भवेद्रचितमल्पविषं ज्ञात्वा नरं विविषमाश्विह कुर्यात् ॥ ८४ ॥

भावार्थः--The Hindi commentary was not digitized.

उद्विहितनिर्विषलक्षण.

स्वस्थ एव मनुजोप्यहिदष्टः स्वच्छशोणितयुतक्षतयुक्तः ।
यत्क्षतं श्वयथुना परिहीनं निर्विषं भवति तद्विहिताख्यम् ॥ ८५ ॥

भावार्थः--The Hindi commentary was not digitized.