506

सर्पजविषोंसे दोषों का प्रकोप.

भोगिनः पवनकोपकरास्ते पित्तमुक्तबहुमण्डलिनस्ते ।
जीवराजितशरीरयुताश्लेष्माणमुग्रमधिकं जनयति ॥ ९० ॥

भावार्थः--The Hindi commentary was not digitized.

वैकरंज के विष से दोषप्रकोप व दर्वीकर दष्टलक्षण.

यद्वयव्यतिकरोद्भवसर्पास्ते द्विदोषगणकोपकरास्ते ।
वातकोपजनिताखिलचिन्हास्संभवंति फणिदष्टविषेऽस्मिन् ॥ ९१ ॥

भावार्थः--The Hindi commentary was not digitized.

मंडलीराजीमंतदष्टलक्षण.

पित्तजानि बहुमण्डलिदष्टे लक्षणानि कफजान्यपि राजी--।
मद्विषप्रकाटितानि विदित्वा शोधयेत्तदुचितौषधमंत्रैः ॥ ९२ ॥

भावार्थः--The Hindi commentary was not digitized.

दर्वीकरविषज सप्तवेग का लक्षण.

दर्वीकरोग्रविषवेगकृतान्विकारान् वक्ष्यामहे प्रवरलक्षणलक्षितास्तान् ।
आदौ विषं रुधिरमाशु विदूष्य रक्तं कृष्णं करोति पिशितं च तथा द्वितीये ॥ ९३ ॥
चक्षुर्गुरुत्वमधिकं शिरसो रुजा च तद्वत्तृतीयविषवेगकृतो विकारः ।
कोष्ठं प्रपद्य विषमाशु कफप्रसेकं कुर्याच्चतुर्थविषवेगविशेषितस्तु ॥ ९४ ॥
स्रोतः विधाय कफ एव च पंचमेऽस्मिन् वेगे करोति कुपितः स्वयमुग्रहिक्का ।
षष्टे विदाहहृदयग्रहमूर्च्छनानि प्राणैर्विमोक्षयति सप्तमवेगजातः ॥ ९५ ॥

भावार्थः--The Hindi commentary was not digitized.