517

सर्पदष्टके असाध्यलक्षण.

वल्मीकेषूग्रदेवायतनपितृवनक्षीरवृक्षेषु संध्या--।
काले सच्चत्वरेषु प्रकटकुलिकवेलासु तद्दारुणोग्र--॥
ख्यातेष्वर्क्षेषु दष्टा श्वयथुरपि सुकृष्णातिरक्तश्च दंशे ।
दंष्ट्राणां वापदानि स्वसितरुधिरयुक्तानि चत्वारि यस्निन् ॥ १२९ ॥
क्षुत्तृड्पीडाभिभूताः स्थविरतरनराः क्षीणगात्राश्च बालाः ।
पित्तात्यंतातपाग्निप्रहततनुयुता येऽत्यजीर्णामयार्ताः ॥
येषां नासावसादो मुखमतिकुटिलं संधिभंगाश्च तीव्रो ।
वाक्संगोऽतिस्थिरत्वं हनुगतमपि तान् वर्जयेत्सर्पदष्टान् ॥ १३० ॥

भावार्थः--The Hindi commentary was not digitized.

सर्पद्रष्ट के असाध्यलक्षण.

राज्यो नैवाहतेषु प्रकटतरलताभिः क्षतेनैव रक्तं ।
शीतांभोभिर्निषिक्ते न भवति सततं रोमहर्षो नरस्य ॥
वर्तिर्वक्त्रादजस्रं प्रसरति कफजा रक्तमूर्ध्वं तथाधः ॥
सुप्तिर्मुक्तं विदार्य प्रविदितविधिना वर्जयेत् सर्पदष्टान् ॥ १३१ ॥

भावार्थः--The Hindi commentary was not digitized.