484

द्रवपदार्थगतविषलक्षण.

विषयुतसद्रवेषु बहुवर्णबिचित्रतरं ।
भवति सुलक्षणं विविधबुद्बुदफेनयुतम् ॥
यदपि च मुद्गमाषतुवरीगणपक्वरसे ।
सुरुचिररेखया विरचितं बहुनीलिकया ॥ ११ ॥

भावार्थः--The Hindi commentary was not digitized.

मद्य तोयदधितक्रदुग्धगतविशिष्टविषलक्षण.

विषमपि मद्यतोयमुद्गतकालिकया ।
विलुलितरेखया प्रकुरुते निजलक्षणतां ॥
दधिगतमल्पपीतसहितं प्रभया सितया ।
सुरुचिरताम्रया पयसि तक्रगतं च तथा ॥ १२ ॥

भावार्थः--The Hindi commentary was not digitized.

द्रवगत, व शाकादिगतविषलक्षण.

पुनरपि तद्द्रवेषु पतितं प्रतिबिंबमिह ।
द्वितयमथान्येदव विकृतं न च पश्यति वा ॥
अशनविशेषशाकबहुसूपगणोऽत्र विषा--।
द्विरसविकीर्णपर्युषितवच्च भवेदचिरात् ॥ १३ ॥