485

भावार्थः--The Hindi commentary was not digitized.

दंतकाष्ठ, अवलेख, मुखवास व लेपगतविषलक्षण.

विषयुतदंतकाष्ठमविशीर्णविकूर्चयुतं ।
भवति ततो मुखश्वयथुरुग्रविपाकरुजः ॥
तदिव तदावलेखमुखवासगणेऽपि नृणां ।
स्फुटितमसूरिकाप्रभृतिरप्यनुलेपनतः ॥ १४ ॥

भावार्थः--The Hindi commentary was not digitized.

वस्त्रमाल्यादिगतविषलक्षण.

बहिरखिलांगयोग्यवरवस्तुषु तद्वदिह ।
प्रकटकषायतोयवसनादिषु शोफरुजः ॥
शिरसि सकेशशातबहुदुःखमिहास्रगति--।
र्विवरमुखेषु संभवंति माल्यबिषेण नृणाम् ॥ १५ ॥

भावार्थः--The Hindi commentary was not digitized.

मुकुटपादुकागतविषलक्षण.

मुकुटशिरोबलेखनगणेष्वपि माल्यमिव ।
प्रविदितलक्षणैः समुपलक्षयितव्यमिह ॥