अन्य प्रकार के अरिष्टलक्षण.

मर्म उपद्रवान्वितमहामयपीडितमुग्रमर्मरो--।
गव्यथितांगयष्टिमथवा तमतीतसमस्तवेदनम् ॥
त्यक्तनिजस्वभावमसितद्विजतद्रसनोष्ठनिष्ठुरं ।
स्तब्धनिमग्नरक्तविषमेक्षणमुद्गतलोचनं त्यजेत् ॥ ३८ ॥

भावार्थः--The Hindi commentary was not digitized.

पश्यति सर्वमेव विकृताकृतिमार्तविशेषशद्बजातिं ।
विकृतिं श्रुणोति विकृतिं परिजिघ्रति गंधमन्यतः ॥
सर्वरसानपि स्वयमपेतरसो विरसान्ब्रवीति यः ।
स्पर्शमरं न वेत्ति विलपत्यबलस्तमपि त्यजेद्भिषक् ॥ ३९ ॥
541

भावार्थः--The Hindi commentary was not digitized.

आननसंभृतश्वयथुरंघ्रिगतः पुरुषं--।
हंति तदंघ्रिजोप्यनुतदाननगः प्रमदां--॥
गगुह्यगतस्तयोर्मृतिकरोर्धशरीरगतो--।
प्यर्धतनोर्विशोषणकरः कुरुते मरणं ॥ ४० ॥

भावार्थः--The Hindi commentary was not digitized.

यो विपरीतरूपरसगंधविवर्णमुखो ।
नेत्ररुजां विना सृजति शीतलनेत्रजलम् ॥
दाहनखद्विजाननसमुद्गतपुष्पसुग--।
र्भातिसितासितैररुणितैरनिमित्तकृतैः ॥ ४१ ॥

भावार्थः--The Hindi commentary was not digitized.