569

भावार्थः--The Hindi commentary was not digitized.

सम्यग्दग्धचिकित्सा.

सम्यग्दग्धमिहाज्यलिप्तमसकृत् सच्चंदनैः क्षीरवृ--।
क्षत्वग्भिः सतिलैः सयष्टिमधुकैः शाल्यक्षतैः क्षीरसं--॥
पिष्टैरिक्षुरसेन वा घृतयुतैः छिन्नोद्भवांभोजब--।
र्गैः वा गैरिकया तुगासहितया वा लेपयेदादरात् ॥ २८ ॥

भावार्थः--The Hindi commentary was not digitized.

दुर्दग्धचिकित्सा.

दुर्दग्धेपि सुखोष्णदुग्धपरिषेकैराज्यसंम्रक्षणैः ।
शीतैरप्यनुलेपनैरुपचरेत् स्फोटानपि स्फोटयेत् ॥
स्फोटान्सस्फुटितानतो घृतयुतैः शीतौषधैः शीतलैः ।
पत्रैर्वा परिसंवृतानपि भिषक्कुर्यात्सुशीतादृतिम् ॥ २९ ॥

भावार्थः--The Hindi commentary was not digitized.

अतिदग्धचिकित्सा.

ज्ञात्वा शीतलसंविधानमधिकं कृत्वातिदग्धे भिष ।
ग्मांसान्यप्यवलंवितानपहरेत्स्नाय्वादिकान्यप्यलम् ॥