613

बस्तिके गुण और दोष.

अथात्र सद्बरितविधानसद्विधौ भवंत्यचिंत्या बहवो महागुणाः ।
तथैव दुर्वैद्यकृते तु दुर्विधौ भवंत्यचिंत्या बहवोऽपि दुर्गुणाः ॥ ८८ ॥

भावार्थः--The Hindi commentary was not digitized.

बस्तिव्यापच्चिकित्सावर्णनप्रतिज्ञा.

विधिर्निषेधश्च पुरैव भाषितावतःपरं बस्तिविपच्चिकित्सितम् ।
प्रवक्ष्यते दक्षमनोहरौषधैः स्वनेत्रबस्तिप्रणिधान भेदतः ॥ ८९ ॥

भावार्थः--The Hindi commentary was not digitized.

बस्तिप्रणिधान में चलितादिव्यापच्चिकित्सा.

अथेह नेत्रं चलितं विवर्तितस्तथैव तिर्यग्विहितं गुदक्षतम् ।
करोति तत्र व्रणवच्चिकित्सितं विधाय संस्वेदनमाचरेद्भिषक् ॥ ९० ॥

भावार्थः--The Hindi commentary was not digitized.

ऊर्ध्वौक्षिप्त व्यापच्चिकित्सा.

तथोर्ध्वमुत्क्षिप्त इहानिलान्वितं सफेनिलं चौषधमुद्वमत्क्षणात् ।
भिन्नत्ति तद्वंक्षणमाशु तापितं, निरूहयेदप्यनुवासयेत्ततः ॥ ९१ ॥

भावार्थः--The Hindi commentary was not digitized.