615
अतीव दैर्घ्येप्यतिदीर्घदोषत--। स्तथाल्पके चाल्पनिपीडितोपमः ।
अतः परं बस्तिविकारलक्षणं । प्रवक्ष्यते तत्परिवर्जयेदपि ॥ ९६ ॥

भावार्थः--The Hindi commentary was not digitized.

बस्तिदोषजव्यापत्ति व उसकी चिकित्सा.

तथैव बस्तौ बहलेंऽतरंगिके । दृढंन चांधो भवतीति वर्जयंत् ?
सुदुर्बलः पीडित एव भिद्यते । प्रवृत्यतिछिद्रयुते द्रवं द्रुतम् ॥ ९७ ॥
अथाल्पबस्तावतिहिनत द्रवं । भवत्यतस्तान्परिवर्जयोद्भषक् ।

पीडनदोषजन्य व्यापत्ति व उसकी चिकित्सा

तथातिनिष्पीडनतो द्रवद्रुतं । मुखे च नासापुटयोः प्रवर्तते ॥ ९८ ॥
तथा गृहीत्वाशु विधिर्विधीयतां । विरेचयत्तीक्ष्णतरैर्विरेचनैः ।
सुशीतलाम्भः परिषेचयेत्तथा । ततोऽतियत्नाद्द्रवमानयेदधः ॥ ९९ ॥
अथाल्पपीडादपवर्तते द्रवं । पुनः पुनः पीडनतोऽनिलान्वितम् ।
करोति चाध्मानमतीववेदनां । ततोऽनिलघ्नं कुरु बस्तिमुत्तमम् ॥ १०० ॥
चिरेण निष्पीडितमामयोदयं । करोति तत्क्लेशमथातुरं द्रवम् ।
यथोक्तसद्भेषजसिद्धसाधनै--। रुपाचरेदाशु सुशांतये सदा ॥ १०१ ॥

भावार्थः--The Hindi commentary was not digitized.