617

भावार्थः--The Hindi commentary was not digitized.

इहाधिकान्कुब्जशरीरयोजितान् ।
विशल्यतो वंक्षणमेव वान्यतः ॥
तथैव संकुंचितदेहसक्थिके--।
प्यतोर्ध्वमुत्क्रम्य न चागमिष्यति ॥ १०६ ॥
तयोश्च बस्तिं विदधीत यत्नतो ।
विनिर्गमायागमतत्वविद्भिषक् ॥
तले च तद्दक्षिणपार्श्वशायिनः ।
कृतोप्यकिंचित्कर एव सांप्रतम् ॥ १०७ ॥

भावार्थः--The Hindi commentary was not digitized.

अयोगादिवर्णनप्रतिज्ञा.

अथाप्ययोगादिविधिप्रतिक्रिया प्रवक्ष्यते लक्षणतश्चिकित्सितैः ।
इहोत्तरे चोत्तरसंकथाकथेत्यथ ब्रवीम्युक्तमनुक्तमप्यलम् ॥ १०८ ॥

भावार्थः--The Hindi commentary was not digitized.

अयोग, आध्मानलक्षण व चिकित्सा.

सुशीतलो वाल्पतरौषधोपि वा तथाल्पमात्रापि करोत्ययोगताम् ।
तथा नभो गच्छति बस्तिरुद्धतं भवत्यथाध्मानमतीववेदना ॥ १०९ ॥