618
सुतीक्ष्णबस्तिं वितरेद्यथोचितं विरेचनं चात्र विधीयते बुद्धैः ।
अजीर्णकालेऽत्यशने मलाधिके प्रभूतबस्तिर्हिमशीतलोपि वा ॥ ११० ॥
अथेह दत्तं च करोति वेदनामतीव चाध्मानमतोऽत्र दीयते ।
तथानिलघ्नोऽग्निकरोतिऽतिशोधनो । प्रधानबस्तिर्वरबस्तिशास्त्रतः ॥ १११ ॥

भावार्थः--The Hindi commentary was not digitized.

परिकर्तिकालक्षण व चिकित्सा.

अतीव रूक्षेप्यतितीक्ष्णभेषजे--।
प्यतीव चोष्णे लवणेऽधिकेऽपि वा ॥
करोति बस्तिः पवनं सपित्तकं ।
ततोऽस्य गात्रे परिकर्तिका भवेत् ॥ ११२ ॥
यतस्समग्रं गुदनाभिबरितकं ।
विकृष्यते तत्परिकर्तिका मता ॥
ततोऽत्र यष्टीमधुपिच्छिलौषधै--।
र्निरूहयेदप्यनुवासयेदतः ॥ ११३ ॥

भावार्थः--The Hindi commentary was not digitized.