619

पारिस्रावका लक्षण.

तथातितीक्ष्णाम्लपटुप्रयोगतो । भवेत्परिस्रावमहामयो नृणाम् ॥
स चापि दौर्बल्यमिहांगसादनं । विधाय संस्रावयतीह पैत्तिकम् ॥ ११४ ॥

भावार्थः--The Hindi commentary was not digitized.

प्रवाहिका लक्षण.

सुतीक्ष्णबस्तेरनुवासतोपि वा । प्रवाहिका स्यादतियोगमापदः ॥
प्रवाहमाणस्य विदाहशूलवत् । सरक्तकृष्णातिकफागमो भवेत् ॥ ११५ ॥

भावार्थः--The Hindi commentary was not digitized.

इन दोनोंकी चिकित्सा.

ततस्तु सर्पिर्मधुरौषधद्रवै--। र्निरूहयेदप्यनुवासयेत्ततः ॥
सुपिच्छिलैः शीतलभेषजान्वितैः । घृतैः सुतैलैः पयसैव भोजयेत् ॥ ११६ ॥

भावार्थः--The Hindi commentary was not digitized.

हृदयोपसरणलक्षण.

समारुते तीक्ष्णतरातिपीडितः । करोति बस्तिर्हृदयोपसर्पणम् ।
तदेव मूर्च्छोन्मददाहगौरवप्रसेकनानाविधवेदनावहम् ॥ ११७ ॥

भावार्थः--The Hindi commentary was not digitized.