588

सद्यस्नेहनप्रयोग.

सपिप्पलीसैंधवमस्तुकान्वितं घृतं पिबेद्रौक्ष्यनिवारणं परम् ॥
सशर्कराज्यं पयसैव वा सुखम् पयो यवागूमथवाल्पतण्डुलाम् ॥ १२ ॥
सितासिताज्यैः परिदुह्य दोहनं प्रपाय रौक्ष्यात्परिमुच्यते नरः ॥
कुलत्थकोलाम्लपयोदधिद्रवैः विपक्वमप्याशु घृतं घृतोत्तमम् ॥ १३ ॥

भावार्थः--The Hindi commentary was not digitized.

स्नेहनयोग्यरोगी.

नृपेषु वृद्धेष्वबलाबलेषु च प्रभूततापाग्निषु चाल्पदोषिषु ॥
भिषग्विदध्यादिह संप्रकीर्तितान् क्षणादपि स्नेहनयोगसत्तमान् ॥ १४ ॥

भावार्थः--The Hindi commentary was not digitized.

रूक्षमनुष्यका लक्षण.

पुरीषमत्यंतनिरूक्षितं घनं निरेति कृच्छ्रान्न च भुक्तमप्यलम् ॥
विपाकमायाति विदह्यते ह्युरो विवर्णगात्रेऽनिलपूरितोदरः ॥ १५ ॥
सुदुर्बलस्स्यादतिदुर्बलाग्निमान्विरूक्षितांगो भवतीह मानवः ॥
ततः परं स्निग्धतनोस्सुलक्षणम् ब्रवीमि संक्षेपत एव तण्छ्रुणु ॥ १६ ॥

भावार्थः--The Hindi commentary was not digitized.

86
  1. वृषेषु इति पाठांतरम् । इसका अर्थ जो धर्मात्माहैं अर्यात् शांतस्वभाववाले हैं ऐसा होगा परंतु प्रकरणमें नृपेषु यह पाठ संगत मालुम होता है । सं.