593

दोषों के बृंहण आदि चिकित्सा.

क्षीणास्तु दोषाः परिबृंहणीयाः सम्यक्प्रशम्याश्चलिताश्च सर्वे ॥
स्वस्थाः सुरक्ष्याः सततं प्रवृद्धाः सद्यो विशोध्या इति सिद्धसेनैः ॥ ३१ ॥

भावार्थः--The Hindi commentary was not digitized.

संशोधन में वमन व विरेचन की प्रधानता.

संशोधने तद्वमनं विरेकः सम्यक्प्रसिद्धाविति साधुसिद्धैः ॥
सिद्धांतमार्गभिहितौ तयोस्तद्वक्ष्यामहे यद्वमनं विशेषात् ॥ ३२ ॥

भावार्थः--The Hindi commentary was not digitized.

वमन में भोजनविधि.

श्वोऽहं यथावद्वमनं करिष्यामीत्थं विचिंत्यैव तथापराण्हे ।
संभोजयेदातुरमाशु धीमान् संभोजनीयानपि संप्रवक्ष्ये ॥ ३३ ॥

भावार्थः--The Hindi commentary was not digitized.

सभोजनीय अथवा बाम्यरोगी.

ये तूत्कटोद्यद्बहुदोषदुष्टास्तीक्ष्णाग्नयः सत्वबलप्रधानाः ।
ये ते महाव्याधिगृहीतदेहाः संमोजनीया भुवनप्रवीणैः ॥ ३४ ॥