प्रतिमर्शनस्य के नौ काल व उस के फल.

प्रातस्समुत्थितनरेण कृतेऽवमर्शे सम्यग्व्यपोहति निशोपचितं मलं यत् ।
नासागताननगतं प्रबलां च निद्रामावासनिर्गमनकालनिषेवितं तु ॥ ६४ ॥
वातातपप्रबलधूमरजोऽतिबाधां नासागतं हरति शीतमिहांबुपानात्?
प्रक्षालितात्मदशनेन नियोजितोऽयं दंतेषु दाद्र्यमधिकास्यसुगंधिता च ॥ ६५ ॥
कुर्याद्रुजामपहरत्यधिकां दिवातिसुप्तोत्थितेन च कृतं प्रतिमर्शनं तु ।
निद्रावशेषमथ तच्छिरसो गुरुत्वं संहृत्य दोषमपि तं सुखिनं करोति ॥ ६६ ॥

भावार्थः--The Hindi commentary was not digitized.

654
पंथश्रमाकुलनरेण नियोजितस्तु पंथश्रमं व्यपथ इत्यखिलांगदुःखम् ।
नित्यं सुमूत्रितवताप्यभिषेचितोऽयं सद्यः प्रसादयति नीरदमंगसंस्थम् ॥ ६७ ॥

भावार्थः--The Hindi commentary was not digitized.

वांते नरेऽपि गललग्नबलासमाशु निश्शेषतो व्यपहरत्यभिषेचितस्तु ।
भक्ताभिकांक्षणमपि प्रकरोति साक्षाच्छ्रोतोविशुद्धिमिह भुक्तवतावमर्शः ॥ ६८ ॥

भावार्थः--The Hindi commentary was not digitized.