657

भावार्थः--The Hindi commentary was not digitized.

व्रणशोथ वर्णन.

एवं नस्यविधिर्विशेषविहितः सर्वामयेष्वौषधा--।
न्यप्यामेति विदग्धसाधुपरिपक्वक्रमाद्योजयेत् ॥
इत्यत्युत्तमसंहिताविनिहिता तत्रापि शोफक्रिया--।
मुक्तामत्र सविस्तरेण कथयाम्यल्पाक्षरैर्लक्षिताम् ॥ ७७ ॥

भावार्थः--The Hindi commentary was not digitized.

व्रणशोथ का स्वरूप व भेद.

ये चानेकविधामया स्युरधिकं शोफाकृतिर्व्यंजना--।
स्तेभ्यो भिन्नविशेषलक्षणयुतस्त्वङ्मांससंबंधजः ॥
शोफस्स्याद्विषमः समः पृथुतरो वाल्पः ससंघातवान् ।
वाताद्यैः रुधिरेण चापि निखिलैरागंतुकेनापदा ॥ ७८ ॥

भावार्थः--The Hindi commentary was not digitized.

शोथों के लक्षण.

तेभ्यो दोषविशेषलक्षणगुणादोषोद्भवा शोफकाः ।
पित्तोभ्दूतवदत्र रक्तजनितः शोफातिकृष्णस्तथा ॥