660

शोथोपशमनविधि.

आमं दोषविशेषभेषजगणालेपैः प्रशांति नये--।
द्दुष्टैः पाचनकैर्विदग्धमधिकं संपाचयेद्बंधनैः ॥
पक्वं पीडंनकैस्सुपीडितमलं संभिद्य संशोधये--।
द्बध्वा बधनमप्यतीव शिथिलो गाढस्समश्चोच्यते ॥ ८४ ॥

भावार्थः--The Hindi commentary was not digitized.

बंधनविधि.

संधिष्वक्षिषु बंधनं शिथिलमित्युक्तं समं चानने ।
शाखाकर्णगले समेढ्रवृषणे पृष्ठोरुपार्श्वोरसि ॥
गाढं स्फिक्छिरसोरुवंक्षजघने कुक्षौ सकक्षे तथा ।
योज्यं भेषजकर्मनिर्मितभिषग् भैषज्यविद्याविदन् ॥ ८५ ॥

भावार्थः--The Hindi commentary was not digitized.

अज्ञवैद्यनिंदा.

यश्चात्माज्ञतयाममाशु विदधात्यत्यंतपक्वोयमि--।
त्यज्ञानादतिपक्वमाममिति यश्चोपेक्षते लक्षणैः ॥
तौ चाज्ञानपुरस्सरौ परिहरेद्विद्वान्महापातकौ ।
यो जानाति विदग्धपक्वविधिवत्सोऽयं भिषग्वल्लभः ॥ ८६ ॥