केश कृष्णीकरण हरीतक्यादि लेप.
तैलोभ्दृष्टहरीतकी समधृतं कांसस्य चूर्णं स्वयं ।
भृष्टं लोहरजस्तयो समधृतं नीलांजनं तत्समम् ॥
भृंगी सन्मदयंतिकासहभवासैरीयनीलीनिशा--।
कल्कैस्तत्सदृशैस्सुमर्दितमिदं तैलेन खल्वोपले ॥ ९४ ॥
लोहे पात्रवरे घने सुनिहितं धान्योरुकूपस्थितम् ।
षण्मासं ह्यथवा त्रिमासमपि तन्मासद्वयं मासकम् ॥
एकं तच्च समुध्दृतं समुचितैस्सत्पूजनैः पूजितं ।
लिम्पेत्सांप्रतमेतदंजननिभान् केशान् प्रकुर्यात्सितान् ॥ ९५ ॥
भावार्थः--The Hindi commentary was not digitized.