665
नीलीभृंगरसं फलत्रयरसं प्रत्येकमेकं तथा ।
तैलं प्रस्थमितं प्रगृह्य निखिलं संलोड्य संस्थापितम् ॥
सारस्यासनवृक्षजस्य शकलीभूतस्य शूंर्प घटे ।
भल्लातक्रियया ह्यधो निपतितं दग्ध्वा हरेदासवम् ॥ ९९ ॥
ताम्रायोंऽजनघोषचूर्णमखिल प्रस्थं प्रगृह्यायसे ।
पात्रे न्यस्य तथा समेन सहसा सम्मर्दयेन्निर्द्रवम् ॥
तं तैः प्रोक्तरसैः पुनस्सममितैः अग्नौ मृदौ पाचितं ।
धान्ये मासचतुष्टयं सुविहितं चोध्दृत्य संपूजयेत् ॥ १०० ॥
केशान्काशसमान्फलत्रयलसत्कल्केन लिप्तान्पुनः ।
धौतांस्तत्त्रिफलोदकेन सहसा संमृक्षयेदौषधम् ॥
क्त्रे न्यस्य सुकांतवृत्तमसकृत्संचारयेत्संततं ।
साक्षादंजनपुंजमेचकनिभः संजायते मूर्धजः ॥ १०१ ॥

भावार्थः--The Hindi commentary was not digitized.

101
  1. दो चरणोंका अर्थ ठीक लगता नहीं ।