647

धूम निर्गमन विधि.

यो नासिकापुटगृहीतमहातिधूमस्तं छर्दयेन्मुखत एव मुखाद्गृहीतं ।
अप्याननेन विसृजेद्विपरीततस्तु नेच्छंति जैनमतशास्त्रविशेषणज्ञाः ॥ ४० ॥

भावार्थः--The Hindi commentary was not digitized.

धूमपान के अयोग्य मनुष्य.

मूर्च्छामदभ्रमविदाहतृषोष्णारक्तपित्तश्रमोग्रविषशोकभयप्रतप्ताः ।
पाण्डुप्रमेहतिमिरोर्ध्वमरुन्महोदरोत्पीडिताः स्थविरबालविरिक्तदेहाः ॥ ४१ ॥
आस्थापिताः क्षतयुता ह्युरसि क्षता ये गर्भान्विताश्च सहसा द्रवपानयुक्ताः ।
रूक्षास्तथा पिशितभोजनभाजना ये ये श्लेष्महीनमनुजाःखलु धूमवर्ज्याः ॥ ४२ ॥

भावार्थः--The Hindi commentary was not digitized.

धूमसेवन का काल.

स्नातेन चान्नमपि भुक्तवतातिसुप्त्वा बुद्धेन मैथुनगतेन मलं विसृज्य ।
क्षुत्वाथ वांतमनुजेन च दंतशुद्धौ प्रायोगिकः प्रतिदिनं मनुजैर्नियोज्यः ॥ ४३ ॥

भावार्थः--The Hindi commentary was not digitized.