648
अष्टासु चाप्यवसरेषु हि दोषकोपः साक्षाद्भवेदिति च तन्प्रशमैकहैतुः ।
धूमो निषेव्य इति जैनमते निरुक्तो वाक्यश्च तेन विषदाहरुजाप्रशांतिः ॥ ४४ ॥

भावार्थः--The Hindi commentary was not digitized.

धूमसेवन का गुण.

तेनेंद्रियाणि विमलानि मनःप्रसादो ।
दार्ढ्यं सदा दशनकेशचयेषु च स्यात् ॥
श्वासातिकासवमथुस्वरभेदनिद्रा--।
काचप्रलापकफसंस्रवनाशनं स्यात् ॥ ४५ ॥

भावार्थः--The Hindi commentary was not digitized.

तंद्रा प्रतिश्यायनमत्र शिरोगुरुत्वं ।
दुर्गंधमाननगतं मुखजातरोगान् ॥
धूमो विनाशयति सम्यगिह प्रयुक्तो ।
योगातियोगविपरीतविधिप्रवीणैः ॥ ४६ ॥

भावार्थः--The Hindi commentary was not digitized.

योगायोगातियोग.

योगो भवत्यधिकरोगविनाशहेतुः ।
साक्षादयोग इति रोगसमृद्धिकृत्स्यात् ॥
योग्यौषधैरतिविधानमिहातियोगः ।
सर्वौषधप्रकटकर्मसु संविचिंत्यः ॥ ४७ ॥