650

गंडूष धारणविधि.

सिद्धार्थकत्रिकटुकत्रिफलाहरिद्रा--।
कल्कं विलोड्य लवणाम्लसुखोष्णतोयैः ॥
सुस्विन्नकंठनिजकर्णललाटदेश--।
स्तं धारयेद्द्रवमतः परिकीर्तयेत्सः ॥ ५१ ॥

भावार्थः--The Hindi commentary was not digitized.

गंडूषधारण का काल.

यावत्कफेन परिवेष्टितमौषधं स्यात्तावन्मुखं च परिपूर्णमचाल्यमेतत् ।
यावद्विलोचनपरिप्लवनं स्वनासास्रावं भवेदतितरां विसृजेत्तदा तत् ॥ ५२ ॥

भावार्थः--The Hindi commentary was not digitized.

गंडूषधारण की विशेषविधि.

अन्यद्विगृह्य पुनरप्यनुसंक्रमेण संचारयेदथ च तद्विसृजेद्यथावत् ।
दोषे गते गतवतीह शिरोगुरुत्वे वैस्वर्यमाननगतं सुविधास्य यत्नात् ॥ ५३ ॥
अन्यं न वार्यमधिकं गलशोषहेतुस्तृष्णाद्युपद्रवनिमित्तमिति प्रगल्भैः ।
धार्या भवंति निजदोषविशेषभेदात् क्षाराम्लतैलघृतमूत्रकषायवर्गाः ॥ ५४ ॥

भावार्थः--The Hindi commentary was not digitized.