677
मध्ये सुवर्णवरमाक्षिकधातुचूर्णं ।
दद्यात्समं रसवरस्य सुवर्णमेव ॥
पश्चान्महाग्निपरिविद्धमतीव शुद्धं ।
बीजोत्तरं तदपि जीर्णय पादमर्धम् ॥ २७ ॥
तं स्वच्छपिच्छिलरसं पटुशुद्धमुद्य--।
न्मूषागतं सुविहितान्यसुभाजनस्थम् ॥
भूमौ निधाय पिहितं तु वितस्तिमात्रं ।
तस्योपरि प्रतिदिनं विदधीत चाग्निम् ॥ २८ ॥
मासं निरंतरमिहाग्निनिभावितं तं ।
चोध्दृत्य पूजितमशेषसुपूजनाग्रैः ॥
संशुद्धताम्रवरतारदलं प्रलिंपे--।
न्मेघेरुनादरसमर्दितसद्रसेंद्रम् ॥ २९ ॥

भावार्थः--The Hindi commentary was not digitized.

108
  1. बद्ध इति पाठांतरं ॥