रसबृंहणविधि.

अथ रसं परिबृंहयते ध्रुवं सततमग्निसहं कुरु सर्वथा ।
प्रकटतापनवासनकासनैर्जिनमतक्रमतो हि यथक्रमात् ॥ ३१ ॥

भावार्थः--The Hindi commentary was not digitized.

लवणतालकमेघसुमृत्तिका--।
तुषमषीशरवारणसद्रसैः ॥
अतिविपेष्य घनांतरितान्तरा--।
मपि विधाय सुगोस्तनमूषिकाम् ॥ ३२ ॥
वहिरिहांतरमभ्रककल्कसं--।
प्रतिविलेपितगोस्तनमूषिकां ॥
निहितचारुरसं घन संप्रति ।
पिहितमग्निमुखे बहुबासयेत् ॥ ३३ ॥
मपितुषोत्ककरीपकरीषकै--।
स्तुपकरीषयुतभ्रमैररणु--॥
भ्रमरकैश्च करीषयुतैर्महा--।
भ्रमरकैरपि रूक्षितवन्हिना ॥ ३४ ॥
इति यथा क्रमतोऽग्निसहं रसं ।
प्रकटसारणया परिबृंहितैः ॥
विहितंसारणतैलयुतैः रसैः ।
क्षिप समं कनकद्रवतां गतम् ॥ ३५ ॥
679
अपि च सारितसद्गुलिकां पुरः ।
क्रमत एव चतुर्गुणसारता ॥
गुलिक एव च सारणमार्मतो ।
बिदितचारुभिदैरपि जीर्णयेत् ॥ ३६ ॥
स खलु सिद्धरसस्समसारितः ।
पुनरपीह चतुर्गुणसारतः ॥
क्रमयुतैरतिमर्दनपाचनै--।
र्भवति तत्प्रतिसारितनामकः ॥ ३७ ॥
अयमपि प्रतिसारित सद्रस--।
स्समगुणोत्तमहेतुसुसारितः ॥
विदितसिद्धरसे तु चतुर्गुणे ।
क्रमविजीर्णरसो ह्यनुसारितः ॥ ३८ ॥

भावार्थः--The Hindi commentary was not digitized.

680