698
पक्वैर्भस्मचतुर्गुणांभसि ततः पादावशेषीकृतैः ।
तत्पादामलसद्गुडैः परिपचेन्नातिद्रवं फाणितम् ॥ ४१ ॥
तस्मिन्सत्त्रिकटुत्रिजातकघनान् संचूर्ण्य पादांशतो ।
दत्वा मिश्रितमेतदुक्तकृतसंस्कारे घटे स्थापितं ॥
सद्धान्ये कलशं निधाय पिहितं मासोध्दृतं तं नरः ।
संभक्ष्याक्षयरोगवल्लभगणान् जित्वा चिरं जीवति ॥ ४२ ॥

भावार्थः--The Hindi commentary was not digitized.

चित्रककल्प.

शुद्धं चित्रकमूलमुक्तविधिना निष्क्वाथ्य तस्मिन्कषा--।
ये दग्ध्वा सहसा क्षिपेदमलिना सच्छर्करा शंखना--॥
भीरप्याशु विगाल्य फाणितयुतं शीतीकृतं सर्वग--।
न्धद्रव्यैरपि मिश्रितं सुविहितं सम्यग्घटे संस्कृते ॥ ४३ ॥
तद्धान्ये निहितं समुध्द्दृतमतो मासात्सुगंधं सुरू--।
पं सुस्वादु समस्तरोगनिवहप्रध्वंसिसौख्यास्पदं ॥
एवं चित्रकसद्रसायनवरं पीत्वा नरस्संततं ।
यक्ष्माणं क्षपयेदनूनबलमत्यर्शांसि सर्वान्गदान् ॥ ४४ ॥