699

भावार्थः--The Hindi commentary was not digitized.

त्रिफलादिकाप.

एवं सत्त्रिफलासुचित्रकगणाद्युक्तोरुसद्भेषजा--।
न्युक्तान्युक्तकषायपाकविधिना कृत्वा निषेव्यातुरः ॥
जीवेद्वर्षशतत्रयं निखिलरोगैकप्रमाथी स्वयं ।
निर्वीर्योऽप्यतिवीर्यधैर्यसहितः साक्षादनंगोपमः ॥ ४५ ॥

भावार्थः--The Hindi commentary was not digitized.

कल्प का उपसंहार.

इत्येवं विविधविकल्पकल्पयोगं शास्त्रोक्तक्रमविधिना निषेव्य मर्त्यः ।
प्राप्नोति प्रकटबलं प्रतापमायुर्वीर्यं चाप्रतिहततां निरामयत्वम् ॥ ४६ ॥

भावार्थः--The Hindi commentary was not digitized.

प्रत्यक्षप्रकटफलप्रसिद्धयोगान् सिद्धांतोध्दृतनिजबुद्धिभिः प्रणीतान् ।
बुध्वैवं विधिवदिह प्रयुज्य यत्नाद्दुर्वार्याखिलरिपवो भवंति मर्त्याः ॥ ४७ ॥