कल्प का उपसंहार.
इत्येवं विविधविकल्पकल्पयोगं शास्त्रोक्तक्रमविधिना निषेव्य मर्त्यः ।
प्राप्नोति प्रकटबलं प्रतापमायुर्वीर्यं चाप्रतिहततां निरामयत्वम् ॥ ४६ ॥
भावार्थः--The Hindi commentary was not digitized.
प्रत्यक्षप्रकटफलप्रसिद्धयोगान् सिद्धांतोध्दृतनिजबुद्धिभिः प्रणीतान् ।
बुध्वैवं विधिवदिह प्रयुज्य यत्नाद्दुर्वार्याखिलरिपवो भवंति मर्त्याः ॥ ४७ ॥
भावार्थः--The Hindi commentary was not digitized.
इति तद्धितं रसरसायनकं परमौषधान्यलं ।
शास्त्रविहितविधिनात्र नरास्समुपेत्य नित्यसुखिनो भवंति ते ॥
अथ चोक्तयुक्तविधिनात्र सदसद्वस्तुवेदिना सत्यमिति ।
किमुत संकथनीयमशेषमस्ति सततं निषेव्यताम् ॥ ४८ ॥
भावार्थः--The Hindi commentary was not digitized.
नगरी यथा नगरमात्मपरिकरसमस्तसाधनैः ।
रक्षति च रिपुभयात्तनूनां तनुमुक्तभेषजगणैस्तथामयात् ॥
इदमौषधाचरणमत्र सुकृतीजनयोग्यमन्यथा ।
धर्मसुखनिलयदेहगणः प्रलयं प्रयाति बहुदोषदूषितः ॥ ४९ ॥
भावार्थः--The Hindi commentary was not digitized.
701इत्येवं विविधौषधान्यलं ।
सत्वमतो मनुजा निषेव्य सं--॥
प्राप्नुवंति स्फुटमेव सर्वथा--।
मुत्रिकं चतुष्कसत्फलोदयम् ॥ ५० ॥
भावार्थः--The Hindi commentary was not digitized.