701
इत्येवं विविधौषधान्यलं ।
सत्वमतो मनुजा निषेव्य सं--॥
प्राप्नुवंति स्फुटमेव सर्वथा--।
मुत्रिकं चतुष्कसत्फलोदयम् ॥ ५० ॥

भावार्थः--The Hindi commentary was not digitized.

गंथकर्ता की प्रशस्ति.

श्रीविष्णुराजपरमेश्वरमौलिमाला--।
संलालितांघ्रियुगलः सकलागमज्ञः ॥
आलापनीयगुणसोन्नत सन्मुनीद्रः ।
श्रीनंदिनंदितगुरुर्गुरुरूर्जितोऽहम् ॥ ५१ ॥

भावार्थः--The Hindi commentary was not digitized.

तस्याज्ञया विविधभेषजदानसिध्यै ।
सद्वैद्यवत्सलतपः परिपूरणार्थम् ॥
शास्त्रं कृतं जिनमतोध्दृतमेतदुद्यत् ।
कल्याणकारकमिति प्रथितं धरायाम् ॥ ५२ ॥

भावार्थः--The Hindi commentary was not digitized.

इत्येतदुत्तरमनुत्तरमुत्तमज्ञैः विस्तीर्णवस्तुयुतमस्तसमस्तदोषं ।
प्राग्भाषितं जिनवरैरधुना मुनींद्रोग्रादित्यपण्डितमहागुरुभिः प्रणीतम् ॥ ५३ ॥