38

औषध प्रयोग विधान ।

हीनं त्वकिंचित्करतामुपैति तस्मात्समं साधु नियोजनीयं ।
दत्वाल्पमल्पं दिवसत्रयेण मात्रां विदध्यादिह दोषशांत्यै ॥ ३७ ॥

भावार्थः--The Hindi commentary was not digitized.

जीर्णाजीर्ण औषध विचार ।

सर्वाणि सार्द्राणि वरौषधानि वीर्याधिकानीति वदंति तज्ज्ञाः ।
सर्पिर्विडंगाः सह पिप्पलीभिर्जीणा भवंत्युत्तमसद्मुणाढ्याः ॥ ३८ ॥

भावार्थः--The Hindi commentary was not digitized.

स्थूल आदि शरीरभेद कथन ।

सूत्रक्रमाद्भेषजसंविधानमुक्त्वा तु देहप्रविभागमाह ।
स्थूलः कृशो मध्यमनामकश्च तत्र प्रधानं खलु मध्यमाख्यम् ॥ ३९ ॥

भावार्थः--The Hindi commentary was not digitized.

प्रशास्ताप्रशस्त शरीर विचार

स्थूलःकृशश्चाप्यतिनिंदनीयौ भाराश्वयानादिषु वर्जनीयौ ।
सर्वास्ववस्थास्वपि सर्वथेष्टः सर्वात्मना मध्यमदेहयुक्तः ॥ ४० ॥

भावार्थः--The Hindi commentary was not digitized.

स्थूलादि शरीर की चिकित्सा

स्थूलस्य कार्श्यं करणीयमत्र रूक्ष्यौषधैर्भोजनपानकाद्यैः ।
स्निग्धैस्तथा पुष्टिकरैःकृशस्य पथ्यैस्सदा मध्यमरक्षणं स्यात् ॥ ४१ ॥