44

पित्तप्रकोप के कारण

शोकाधिकक्रोधभयातिहर्षात्तीव्रोपवासादतिमैथुनाच्च ।
कट्वम्लतीक्ष्णातिपटुप्रयोगात् संतापिभिः सर्षपतैलमिश्रैः ॥ ५७ ॥
पिण्याकतैलातपशाकमत्स्यैः छागाविगोमांसकुलत्थयूषैः ।
तत्राम्लसौवीरसुराविकारैः पित्तप्रकोपो भवतीह जंतोः ॥ ५८ ॥

भावार्थः--The Hindi commentary was not digitized.

कफप्रकोप के कारण ।

नित्यं दिवास्वप्नतयाव्यवायाव्यायामयोगादुरुपिच्छिलाम्लैः ।
स्निग्धातिगाढातिपटुप्रयोगैः पिष्टेक्षुदुग्धाधिकमाषभक्ष्यैः ॥ ५९ ॥
दध्नालसंधानकमृष्टभोज्यैः वल्लीफलैरध्यशनैरजीर्णैः ।
अत्यम्लपानैरतिशीतला{??}ः श्लेष्मप्रकोपं समुपैति नॄणाम् ॥ ६० ॥

भावार्थः--The Hindi commentary was not digitized.

दोषोंके भेद

प्रत्येकसंयोगसमूहभंगैः पुंसो दशैवात्र भवंति दोषाः ।
रक्तंच दोषैस्सह संविभाज्यं धातुस्तथा दूषकदूष्यभावात् ॥ ६१ ॥
14 15
  1. --दध्नालसंदाल्कव इति पाठांतरं ।

  2. --पंचादशैवात्र, इति पाठांतरं ।