॥ ईश्वरवादाधिकारे वार्तिकसप्तश्लोकीव्याख्यानम् ॥

प्रथमः खण्डः

कर्मनिर्मितवैचित्र्यमनीशं यो जगज्जगौ ।
प्रणमामि प्रमाणेन तमव्याहतशासनम् ॥
नित्यप्रमाणप्रतिषेधसिद्धौ यदप्रमाणत्वमनित्यभावे ।
विभावयन्नाह कृती तदंशे विमोहदंशापह एष मार्गः ॥
स्वयं निरस्यापि परस्य साधनान्यसङ्गतौ वार्तिककारकीर्तने ।
न निर्वृतिश्चेत् पुनरस्य वर्णनाद् वरं हि तद्वर्णनयैव विक्रमः ॥

यद् यत् कार्यं तत् तद् बुद्धिमत्पूर्वकम्, यथा घटः । कार्यं च महीमहीधरादि ।
यद् वा, यद् यत् न बुद्धिमत्पूर्वकं तत् तन्न कार्यम्, यथा आकाशम् । कार्यं च
तरुगिरिसागरादीत्यर्थतः कार्यहेतुः । एवमचेतनोपादानत्वम्, अर्थक्रियाकारित्वम्,
स्वारम्भकावयवसन्निवेशनाविशेषवत्त्वम्, स्थित्वा स्थित्वा कार्यकर्माणि, प्रवृत्तिधर्मकत्वं
च प्रयोज्यमिति कथमुच्यते,

अनित्येऽप्यप्रमाणतेति ?

एतच्च नित्यानित्ययोः साधारणमेव 33b साधनम् । अनित्यताप्रक्रमणे तु
परस्य प्रमाणपर्येषणा प्रवर्तेत । तदुपन्यासनिदानत्वमात्रेणानित्यशब्दानुवादः । न पुनः
असावनित्य एव भगवान् अस्माभिरिष्यते । तथा हि—

एको विभुः सर्वविदेकबुद्धिसमाश्रयः शाश्वत ईश्वराख्यः ।
प्रमाणमिष्टो जगतो विधाता स्वर्गापवर्गार्थिभिरर्थनीयः ॥

अत्रोच्यते । किमेभिरेव हेतुभिरुपदिष्टगुणगणागारपुरुषातिशयसाधनमनो
रथोऽथ हेत्वन्तरबलात् ? तत्र न तावदाद्यः पक्षः । तथा हि यत् साधनं यावतीमर्थ
गतिं व्याप्नोति ततस्तावत्येव सिध्यति नार्थान्तरम् । न हि यावानिच्छया व्याप्तोऽर्थः,
तावति प्रमाणस्य सामर्थ्यम् । अपि तु यावति प्रमाणस्य सामर्थ्यम्, तावतोऽर्थस्य
तन्निमित्ता सिद्धिः । न च कार्यत्वादि चेतनपूर्वकत्वेन व्याप्यमानमपि तदेकत्वादि
नियतां मतिमुत्पादयितुं शक्तम्, तद्विशेषणे व्याप्तेरेवाप्रतीतेः, अन्यथा विपरीतरूप

266
निश्चयस्यापि प्रसङ्गात् । न हि दहनसामान्येन व्याप्तं धूममुपलभ्य कश्चिद् विस्फुरत्पञ्च
वर्णशिखाकलापकमनीयमनलमनुमातुमीशः ।

ननु तथापि देशकालविशेषविशेषणमनुमिमीत एव पक्षधर्मताबलात्, एवं
भूधरादावपि बुद्धिमदधिष्ठानाधीनं कार्यत्वमुपलब्धवतोऽभिमतसिद्धिरधिकरणसिद्धान्त
न्यायेन भविष्यतीति चेत्—न, सामर्थ्यानुपपत्तेः । यथा ह्येतद्देशकालेन वह्निना
जन्यमानस्य न तद्देशकालत्वमिति धूमाद्यनुमाने सामर्थ्यम्, न तथा चेतयितुरेकत्व
सर्वज्ञत्वादिकमन्तरेण तरूणां वासनिवेशाद्यनुपपत्तिमाकलयामः । ततः पक्षधर्मता
बलात् कुलालादौ तदुत्पादनसमर्थत्वसिद्धिरपि भवन्ती नाभिमतं विशेषमवलम्बितुम्
अलम् ।

ननु यदि भूधरादिनिर्माणसमर्थः सिद्धः, किमपरं प्रार्थ्यते ? तत् किमिदानीम्
अपरिनिष्ठितवाच्यरूपेण वाचकमात्रेण परितुष्टिः ? न ह्येवमभिमतप्रस्तुतवस्तुसिद्धिः ।
उत्पादनव्यापारो हि नोत्पित्सुकार्यं प्रति नियतप्राग्भावित्वमात्रादतिरिक्तः । स चाचेतन
साधारणो बुद्धेरपि नैकसर्वगत्वादिविशेषप्रतिबद्धः सिद्धः । ततो विवक्षितसाध्या
पेक्षया वचनमात्रसिद्ध्या न किञ्चित् ।

कः पुनरेवं प्रतिजानाति सर्वज्ञपूर्वकाः पर्वतादय इति ? अपि तु बुद्धिमद्धेतुका
इत्याशङ्क्य साधनेनान्तरुपहसन्नाह,

स्थित्वा प्रवृत्तिसंस्थानविशेषार्थक्रियादिषु ।
इष्टसिद्धिरिति ।

साधारणासाधारणकर्मनिर्मितो हि समस्तो वस्तुराशिरिष्यते । कर्म चाचेतन
स्वभावमिति सकलज्ञानहेतवोऽसिध्यन्तः सिन्धुभूधरादयः किमनिष्टमस्माकमावहन्तीति
भावः । तन्मात्रसाध्याभिप्राये च विरोधासिद्धेः साधनोपन्यासवैयर्थ्यप्रसङ्गः । तस्मात्
उपात्तविशेष एवानेन 34a साध्यः । न च तत्र साधनसामर्थ्यमित्युक्तम् । अस्तु
तर्हि साधनान्तरादेव तथा सिद्धिरिति द्वितीयपक्षापेक्षया निश्चयाभावमुद्भावयन्नाह,

असिद्धिर्वेति ।

न प्रमाणान्तरं न वा हेत्वन्तरमस्ति यतोऽयं निश्चयः स्यादित्यर्थः । अथवा,
अतीन्द्रियत्वेनाध्यक्षासंभवादनुमानमभ्यर्थनीयम्, तदर्थं च सर्वं हेतुमधिकृत्याह,
267

असिद्धिर्वेति ।

उक्तानुमानतो हि प्रतिवादिसाधारणसर्वकृच्चेतनमात्रे सिद्धेऽपि विशेषशंसी
न कश्चिद्धेतुर्यो न स्वरूपासिद्धोऽन्यत्र सत्तायाः, तन्मात्रसत्तातिरेकिणि धर्मेऽनुमानस्यानव
सरात् । सत्ता तु क्षणभङ्गशंसिनीति नित्यैकत्वापेक्षया आह,

असिद्धिर्बेति ।

विपरीतसिद्धिरित्यर्थः । अधर्मादिवत् पर्युदासेन नित्येऽपि हि परसाधनवद्
दूषणस्याभिमतत्वात्, प्रस्तावमात्रफलत्वादनित्योक्तेः । व्यापित्वापेक्षया अनेकान्त
मप्याह,

असिद्धिर्वा दृष्टान्त इति ।

व्याप्तित्वस्य परमार्थतोऽभावादेव दृष्टान्ते दर्शनाभावान्न तेन कस्यचिद् धर्मस्य
व्याप्तिः सिध्यतीत्युक्तं भवति । सर्वबोधस्य तु भावेऽपि न व्यापकत्वप्रतीतिः ।
कुत इत्याह,

दृष्टान्ते संशयोऽथवा

इति, अर्वाग्दर्शनेन विशेषनिष्ठतया वस्तुतो निश्चेतुमशक्यत्वात् । तस्मादुपगीतगुणस्य
यथोक्तसाधनेभ्यो न साक्षान्नाधिकरणसिद्धान्तन्यायेन, नापि साधनान्तरात् सिद्धिः
इति सिद्धः साधकप्रमाणविरहः । तद्विशेषविरहिणि त्विष्टसिद्धिरिति ॥

अथवा कार्यत्वादिहेतुषूपन्यस्तेषु साध्यसामान्यविशेषभावेन विकल्प इति
सिद्धिरसिद्धिर्वेत्याह । तत्र कर्मवादिताप्रसिद्ध्या सिद्धसाधनं व्यक्तमित्यसिद्धिनिबन्धनं
विशेषेऽनुगमाभावमादर्शयन्नाह,

असिद्धिर्वा दृष्टान्ते संशयोऽथवा

इति, साध्यस्येति प्रकृतम् । तत्र विभुत्वादिप्रत्यनीकधर्मणः कुलालादेरविवादेन सिद्धेः
असिद्धिरिष्टस्य दृष्टान्ते । अथ देहातिरिक्तभागस्यानिसर्गदुर्विभावस्य वैभवादिकमिष्टम्
इति मतिस्तथापि संशयोऽस्तु, किमिदानीमत्र निर्बन्धेनेति भावः ।

सामान्ये सिद्धसाध्यतेति,
268

तस्मात् साध्यविकल्पात्सन्दिग्धसाध्यधर्मत्वाद् वा न दृष्टान्ते साध्येन कार्यत्वादेर्व्याप्ति
रिति विशेषस्यासिद्धेरेव, अनेकान्तस्तु हेतुदोषः ।

ननु धूमानुगमेऽपि,

विशेषेऽनुगमाभावः सामान्ये सिद्धसाध्यता ।
2472

इति समानो न्यायः, तदनयोर्नैकनियतं प्रामाण्यमन्यद् वेति । नियतं चेत् ? न समी
चीनमालोचितम् । तथा हि न तावद्विशेषसिद्धिमबधूय प्रामाण्यमनुमानमनुभवतीति
सिद्धम् । स तु विशेषः पक्षायोगव्यवच्छेदमात्रलक्षणस्तदतिरिक्तश्च संभवति, यथा
अग्निरत्र धूमात्, एवंरूपो वा ? तत्र प्रथमापह्नवे स्यादनुमानस्यापलापः, तन्मूलत्वाद्
अतिरिक्तसिद्धेरपि । न चासौ तथान्वयानुसरणमन्तरेणापि निरसितुं शक्यः । पक्षधर्मो
हि यत्प्रतिबद्धः सिद्धः स तेन धर्मिणमवियुक्तमनादर्शयन् स्वरूपसत्तयैव 34b
वियुज्येत, यदि परं कार्यहेत्वधिकारेण कालाद्यपेक्षातिरिच्यते । द्वितीयसिद्धिस्तु
तन्मात्रसाध्येति तज्जन्यविशेषग्रहणनान्तरीयकतयान्वयानुसरणमन्तरेणाभवन्त्यपि
नानुमानापलापाय प्रभवति, तद्विशेषविरहिणा धर्मेणायोगव्यवच्छेदसिद्ध्यापि
तस्याश्चरितार्थत्वात् । अनुमानविशेषापलापस्तु स्यात्, यथा कश्चित् पञ्चवर्णशिखं
शिखिनमनुमातुमभिप्रेत्य वह्निरत्र धूमादिति साधने परेण सिद्धसाधनाननुगमाभ्याम्
अभियुज्यमानस्तर्हि धूममात्रोच्छेदेनेह चानुमानमपि न स्यादिति ब्रुवाणः शोभेत ।
न त्वनुमानोच्छेद एव स्यात्, तदैव दहनसामान्यानुमानस्य तेन प्रमाणीक्रियमाण
त्वात् । तस्मात्,

पक्षायोगव्यवच्छेदमात्रभेदेन दूषणम् ।
इष्टसिद्ध्यन्वयाभावावतिरिक्तेषु दूषणम् ॥

नैतौ दूषणत्वेऽदूषणत्वे वा नियतौ, विषयभेदेन तु द्वयी स्थितिरिति मतम् ।
तद्वदिहापि जलधिभूधरादौ बुद्धिमदधिष्ठानायोगव्यवच्छेदमङ्गीकृत्य विवक्षितविशेषा
न्तरापेक्षया तौ दूषणमुद्भावयतश्चित्रकान्तिशिखानुमानोच्छेद एव प्रसञ्जयितुमाञ्जसः
नानुमानोच्छेदः । ततोऽनुमानविशेषापेक्षया नैकनियतं प्रामाण्यमप्रामाण्यं वेति युक्तं
न सामान्येन ।

269

ननु चाद्यापि भेदोऽन्वयमनपेक्ष्यैव सिद्ध इति भेदान्तरे कः प्रतिरोधः ? न वै
निरन्वया कापि सिद्धिरस्ति । सामान्यान्वय एव तु तं विशेषमनाकृष्य नावस्थातुं
शक्तः । न चैवं विशेषान्तरेऽपि तस्यावश्यं शक्तिरिति शक्यम्, यथोपवर्णितं प्राक्,
अन्यथा पञ्चवर्णशिखाद्यनुमानस्य दुर्निवारत्वात् । अत्रासंभवादिक्षेयणमेकचित्तत्वादि
मति पुरुषेऽपि समानम् । तादृगनुमानोद्गारस्तत्रापि समानः । तस्मादतिरेकविशेष
शंसिनावश्यमनेनान्वयः प्रदर्शनीय इति तदभावादनेकान्त एव । बुद्धिमन्मात्रसाधने
च सिद्धसाधनमिति स्थितम् ॥

स्यादेतत् । बुद्धिमानिति न चैतन्यमात्रवान्, अपि तूपादानाद्यभिज्ञः प्रयत्न
वान् वाभिमतः, तेन चान्वयो घटादिकार्ये सिद्ध इति भूधरादावपि कार्यत्वमुपलभ्य
मानं तादृशमेव कर्तारमुपस्थापयतीति नोक्तोभयदोषः । तथा हि तदुपादानाद्यभिज्ञ
इत्येव सर्वज्ञः, देशकालनियतश्च, न तद्भेद उपादीयमानकार्यग्रामनिवंर्तनसमर्थः स्यात्
इति नित्यत्वविभुत्वादयोऽपि तद्धर्माः सिद्धा इति चेत् ? सेयं छिन्नमूलविटपस्य
फलभोगप्रत्याशा । एकत्वे हि सिद्धे सिद्धिरेषां गुणानाम्, अन्यथा भिन्नदेशकालस्य
कार्यस्यानेककृतौ संभाव्यमानायां कस्य वैभवादयः, स्वस्वव्यापारविषयमात्रवेदनाच्च
कस्य सार्वज्ञमिति ?

एकत्वे सिद्धे 35a साध्यमशेषमाकृष्येत, न च तन्निश्चये किञ्चिन्निबन्धनम्
अस्ति । न च क्षित्यादिनिर्माणसमर्थः सिद्ध इत्येकवचनप्रयोगपतनात् तत्सिद्धिः,
प्रतिबन्धाभावात् । प्रतिबन्धे वा सिद्धैकत्वः परः कथमेनमुपेक्षेत ? जात्यपेक्षया तु
स्यादपीति न निर्बन्धः, अपरापरधूमप्रमितस्येव वह्नेः । न च विचित्रेऽपि चित्रकर्मणि
सजातीयरेखाद्यनुगमादेककर्तृसिद्धिवत् कार्यभेदेषु गुणविशेषानुगमात् तदेकत्वसिद्धिः,
तथाविधस्य कस्यचिदनुगतस्यैवानुपलब्धेः । उपालभ्यमानं च कार्यत्ववस्तुत्वादि नैकत्व
साधनं चित्रवदेव । गुणान्तरसंभवेऽपि हि सदृश एको वा कर्तेति सन्देह एव किं
पुनस्तदभावेऽप्येकनिश्चयः ? नियतमिदमभित्तिचित्रकर्मैव, यदभेदानिश्चये सर्वज्ञत्वादि
व्यवसीयत इति ।

इतरस्त्वाह एव त्वमपि कार्योत्पत्त्यैवावगन्तव्यम् । कथम् ? बहूनां व्याहत
मनसां स्वातन्त्र्येण परस्परविरोधेन मिथः स्वानुकूलाभिप्रायानवबोधेन युगपत् कार्या
नुत्पत्तिः, उत्पन्नस्य विलोपनादिप्रसङ्गश्च स्यादिति ।

270

अत्र चिन्त्यते बहुभिः करणे युगपत् कार्यानुत्पत्तिरिति भिन्नकालानां भिन्न
देशानां कार्यानुत्पत्तिर्विवक्षिता, एकस्यैव वा महावयविनः क्षितिधरादिरूपस्येति पक्षः ।
तत्र नैकत्राप्यनेकेन करणे उत्पत्तिविरोधं पश्यामः । यथा ह्येकस्य प्रवृत्तिस्तथान्येषामपि
स्याद् वल्मीकवत् । किं प्रयोजनमभिसन्धाय तेषां प्रवृत्तिरिति चेत्—न, विचित्रवृत्ति
त्वान्मनसां प्रवृत्तिनिबन्धस्य विशेषनिश्चायनाशक्तेः । अन्यथेश्वरस्यैव किमभि
प्रेत्येति चिन्तानिर्बन्धो निर्वोढुं न शक्यः । शक्यो वा अन्येषामभिप्रेतादिबाध्यता
वधारणपटीयसाम्, न मृदुप्रकृतेरीश्वरस्य ।

नापि बहूनां परस्परव्याहतिनियम उपपादयितुं शक्यः, वल्मीकौकसामेकारम्भ
दर्शनात् । पुरुषाणामहमहमिकया संभाव्यत एव तदिति चेत् ? सद्विवेकिनो ह्येक
कार्यारम्भिणः सन्त्यपीति तथाविधैरपरैरप्यतिप्रचुरतरैरेकस्य क्रमेण स्थवीयसः करणे
संभविनि कोऽस्माकं नरेष्वनुरोधः ? नापि युगन्धरादेर्युगपन्निष्पत्तिः केनचिदुपलब्धा,
यत एकस्यैव कस्यचिच्छक्तिः संभाव्यते । न चाहमहमिकया पुरुषेष्वपि व्याधात
नियमः शक्यनिर्वाहः, परस्पराव्याघातेन पुरुषस्य विरोधद्वयस्यानुपपत्तेः । तस्मात्
संभावनामात्रमेतत्, न प्रमाणवर्त्म इत्युपन्यासमर्हति, नानेकेनैकमैनाकादेः करण
मिति समयमात्रानुस्मृतिर्वा ।

नन्वनेकत्रापि प्रधानभूतेनेकेन भाव्यं बलीयसा सूत्रधारवत्, सेनानीवद् वा,
अतस्तस्यैव कर्तृत्वमितरेषां तदनुवर्तित्वादिति चेत्—35b न, तत्रापि नियमा
भावात्, स्वस्वप्रयोजनानुरोधेन स्वतन्त्राणामपि केषाञ्चिदेकसेत्वादिघटनादर्शनात् ।
तत्रापि कश्चिदेव प्रधानः प्रयोजक इत्यपि नास्ति, अनेकस्य तथा हृदयोत्कलिकाया
निवारकाभावात्, अप्रधानस्यापि वा प्रयोजकत्वसंभवात् । न तावतैव प्राधान्यं,
लोकविरोधात् । किं च सूत्रधारस्थानीयापरिमितैकैकजनसनाथैः सार्थैरपरिमितैरेव
खण्डशः स्थूलारम्भसंभवेऽपि का नाम कामसिद्धिः ? एतेन वल्मीकजन्तुषु मुख्योप
न्यासः प्रत्युक्तः ।

अपि च यथैकहृदयानुवर्तिभिरनेकैरभिनिर्मीयमानस्य प्रासादस्य सुखोपधाना
वयवसन्निवेशविशेष उपलभ्यते, न तथा विसंस्थूलस्थूलशिलाजालकलितेषु कुल
गिरिष्वपि, येन तथैवैकप्रधानभूतपुरुषपूर्वकत्वमेषामपि स्यात् । तस्मादेकैककैलासादि
सम्पादने बाधितुमशक्योऽनेकव्यापारः कथमपरदूरान्तरानेकदेशकालकलितेषु भावेषु
बाध्यः ?

271

आगमादेकत्वसिद्धिस्तर्हि इति चेत् ? सोऽयं सन्निपातापन्नस्य सर्षपै रक्षाबन्ध
विधिरबाधक एव बौद्धानधिकृत्यागमविचारैकचतुरचेतसः । यदि हि परीक्षागमग्रहः
तदायमेव परीक्षाकाल इति कस्तदनुरोधोऽधुनैव ? अथ परीक्षानपेक्षः, तदापि तत
एवाभिमतसमस्तवस्तुसिद्धिरस्तु, किमनुमानोपन्यासव्यसनेन प्रयासैकसारेण ? कष्टो हि
हेतुशोधनव्यवसायः सूक्ष्मप्रतिवेधविधुरबुद्धीनाम्, सुकरस्तु शास्त्रैकदेशपाठेनाभिमत
लाभः ।

यदप्ययमेव वादी प्रामाण्यमागमानां समर्थयन् न ह्यप्रमाणत्वे समस्ताश्रमिणां
संवादो नाम, तस्याप्रमाणत्वे कस्यचिदप्रामाण्यबोधेन विसंवादस्यापि संभाव्यत्वात्,
संवादनियमस्य च प्रमाणेष्वेव प्रत्यक्षादिषूपपत्तेरिति नाप्रमाणानि ऋग्यजुःसामानि,
समस्ताश्रमिणां संवादिज्ञानसाधनत्वात् प्रत्यक्षादिवदित्यादि पञ्चालकं पठति, तदपि
शिष्यसमितावेवोपयुज्यते । तथा हि संवादो नाम प्रमाणान्तरसङ्गतिरर्थक्रिया वा
स्यात्, न च तदुभयमपि,

सहस्रशीर्षा पुरुषः
ऋ. वे. १०. ९०. १
स वेत्ति विश्वं न च तस्य वेत्ता
तुल० श्वेता० उप० ३. १९
द्यावाभूमिं जनयन् देव एक आसीत्
तुल० सैव ३. ३

इत्यादिवाक्यार्थेषु स्वर्गसाधनाग्निष्टोमादौ वा कस्यचित् संभवति ।

आश्रमिणस्तावद् यथैकस्य एको विभुः शाश्वतः स्रष्टा जगतोऽस्तीति मतिः,
तथान्यस्यापि । तदनुरूपानुष्ठानं चेति चेत् ? सा पुनरेषां मतिस्तदेकागमप्रभवा, तादृग
न्यप्रभवा वा, आकस्मिकविकल्पमात्ररूपा वा स्यात्, न तु प्रत्यक्षानुमानरूपा, अना
श्रमिणामप्यवकाशप्रसङ्गात्, प्रत्यक्षादेः पुरुषान्तरैः 36a अनपराधात् । आगमाश्रयं
तु ज्ञानमश्रुतवतोऽनादृतवतो न स्यात्, भवान्तराभ्यासवासनावशाद् वा संभवेत्
नान्यस्येति युक्तम् । तत्रेदं स्वतन्त्रतया न प्रमाणम्, सत्यसति वा वस्तुनि संभविनः
अभ्यासात् प्रसूतेः । तदागमप्रभवत्वेन प्रमाणान्तरसङ्गतिरुक्ता भवति, तादृक्प्रभव
त्वात्, तस्याप्यप्रामाण्यात् । तदसिद्धं यदसिद्धेन साध्यत इति न्यायः । तस्मात्
272
तादृक्समयानुस्मरणमात्रमेतदेवम्भूतः कश्चिदस्तीति । किं च, आश्रम इत्यपि दर्शनमात्रं
विद्मः, ततश्च समस्ताश्रमिणामिति विशेषणासिद्धिः, बौद्धदिगम्बरादेः संवादासिद्धेः ।
कतिपयसंवादश्च विपरीतमतेऽप्यस्तीति नोपन्यासः सफलः । अतएव विसंवादस्यात्यन्त
निवृत्तिरसिद्धा, यतः प्रामाण्यमवतिष्ठेत । अभिमतमाश्रमिणां त्वनादिकालप्रवृत्तसमान
संमोहसामर्थ्यादपि स्यादिति यत्किञ्चिदेतत् ।

तस्मादेकत्रापि मन्दरादावपरिमितपुरुषव्यापारविषयभागोपादानादिवेदिनां
प्रयत्नवतां कतमः सर्ववेदी ? भिन्नदेशकालैश्च तादृशां करणे कुतो नित्यविभुत्वादयः ?
न चादृष्टभागज्ञानावकाशः, तदन्तरेणापि कुम्भकारेण स्वव्यापारविषयस्य निष्पादनोप
लब्धेः । न च बहुभिरुत्पादितस्यावश्यं विलोपनादिप्रसङ्गे सङ्गतिः काचिदिति एकत्वा
पायेऽनुमृतत्वमनिवार्यं सर्वज्ञत्वादीनामनुमतमिति । एवं च सति, एतदप्यनिबन्धनमेव,
यदाह—तेषां बहुत्वे सर्वज्ञत्वे सति सर्वकर्तृकत्वात् तद्देशकालप्रतिनियतेषु कार्येषु प्रवृत्तौ
यौगपद्यप्रमाणाभावादिति, सर्वज्ञानक्रिययोरेकाधारासिद्धेः । अतएवैकनिराकरणे बहु
तराद्यपगमप्रसङ्गोऽपि न बाधकः । यदि हि सर्वज्ञाः सर्वकर्तारश्च बहवः सिद्धेयुरेकनिरा
करणमेवानुपयोगि स्यात्, बहुतरप्रयासश्चाभ्युपगतो भवति । यदा पुनरनेकमेकैकजनकं
वल्मीकजन्तुवज्जन्तुजातमासज्यते प्रकृतगुणासंस्पर्शि, तदा का नाम हानिः ? न हि
तदा त एव,

स्वर्गापवर्गार्थिभिरर्थनीयाः

भवेयुरिति,

एतेन योऽपि मन्यते, भवदीयसर्वज्ञवदीश्वरोऽप्यनेक एव भविष्यतीति, तदपि
अनवकाशम्, सर्वक्रियाधिकरणस्यैकस्याप्यसिद्धेः । अस्माकं तु न सर्वक्रियया सर्वबोध
सिद्धिः, किं त्वभ्यासात् । स च सकलसाक्षात्कर्तव्याकारविकल्पसंभवात् संभवानुमान
मन्वेतीति तादृक्सार्वज्ञ्यसिद्धिर्यथैकस्य तथान्यस्यापि स्यादिष्यते वा इत्यदोषः ।

अभ्यासादेव तर्हि सर्वनिर्माणमपि भविष्यतीति चेत्—न, अशक्यत्वात् । तथा
हि, स्थावरजीवजननं जङ्गमापत्तिर्वा नाभ्यासफलम् । परिशिष्टप्रतिकृतिनिर्माणकल्प
नायामपि 36b कश्चिदेवमपि स्यादिति स्यात् । न तु इदमेव परिदृश्यमानं भवतु
वनादिकं न तथेति निश्चयः, विशेषोद्देशेन संभवानुमानस्याप्रवृत्तेः । तत्रापि दुर्लभ

273
बाह्योपकरणसंभवातिशयपराधीनो न चित्तमात्रपरावृत्तिवत् सुकरस्तदभ्यास इति
अध्यवसायः ।

प्रभावातिशयसहायापेक्षायां किं शिल्पेन ? न तदन्तरेण तस्य शक्तिरिति
अप्रमाणकम्, तथैवान्यत्र दर्शनादिति चेत्—न, दृष्टक्रमेण गर्भस्थशरीरादिनिर्माण
प्राप्तेः । तदवश्यं प्रभावेतरः । न च तादृक्प्रभावाधिगतये मार्गस्य कश्चिन्निश्चयः । अस्तु
वा व्यापिशिल्पसिद्धिरादिशब्दसंग्राह्यश्चाभ्यासः । तथाप्याह, सन्निवेशादिषु हेतुषु
इष्टस्याकर्तृत्वस्य सिद्धिरसिद्धिर्वा, असिद्धिरेव, उपयोगाभावात् ।

न हि नरकादिना तावत् कश्चिदुपयोगः संवित्त्यानुष्ठातुः सुखोपकरणमात्र
सृष्टावपि नार्थः । श्रमेण स्वश्रेयसः संभवे हि तान्यन्यथा भवन्ति, भूतानि वा सुखम्
आधास्यन्ति । यदि परं तन्मार्गमविदुषां तदुपदेश एवानुग्रहकरः, अतस्तदर्थं मार्ग
साक्षात्करणाभ्यास एव श्रेयानिति वैयर्थ्यानध्यवसायाभ्यां नाभ्यासः । तर्हि प्रतिपरमाणु
ज्ञानाभ्यासेऽपि कथं तद्वद् वा सर्वकरणेऽपि न क्षतिरित्याह सर्वसर्वविदि,

दृष्टान्ते संशयोऽथवा

इति, उपयुक्तसर्वज्ञपक्षस्य मुख्यतया वक्ष्यमाणत्वात् । अथवा वैयर्थ्यानध्यवसाययोस्तत्र
संशयो नाभावनिश्चय इत्यर्थः । उद्देशश्चान्यत्रोपदर्शनमिति न परेण सह साम्यम् ।
ततः प्रकृतहेतुभ्यः प्रयत्नवतां सिद्धावपि न क्षतिरिति ।

ननु प्रयत्नवता जन्तुजातेन जनिता गन्धमादनादय इति भवतामनिष्टमेव, ततः
प्रकारान्तराभावेनानेकतो निवर्तमानः प्रयत्नवानेक एव सकलकार्यकर्ता सिध्यन् सर्वज्ञ
त्वादिकमपि प्रत्युज्जीवयतीति चेत् ? नैतदस्ति, वस्तुप्रतिबन्धानुपपत्तेरिच्छायाः, तत्
कृताया अनेकतो निवृत्तेरसाधनत्वात् । यदि च कथञ्चिदसौ न स्वीकुरुते, स्वीकारयितुं
तर्हि चरणमर्दनादिनाराधनीयः प्रतिवादीति,

नायं न्यायः स्वतन्त्रस्य प्रसङ्गोऽपि न सङ्गतः ।
प्रसह्यैक्यमपायेऽस्य न ह्यनेकत्वमीहितम् ॥

विपर्ययपर्यवसायिव्यापारत्वात् तस्येति ।

ननूभयथापि तावत् परस्यानिष्टमेव, न हि सत्त्वलोकः सकलोऽपि प्रयत्नद्वारेण
कारणमिष्यते, अपि तु चेतनालक्षणकर्माधिपत्यमात्रेण, ततः प्रयत्नवन्नान्तरीयकं
274
कार्यत्वमेकमनेकं वा प्रयत्नवन्तमन्तिके दधानं साधनमनिष्टस्यैवेति चेत् ? तत् किमि
दानीं परानिष्टमात्रसिद्धये साधनमुपन्यस्तम्, किं नु स्वसाध्यसिद्धये ? तत्र च परेष्ट
सिद्धिरसिद्धिर्वात्मन इति न 37a किञ्चित् साधनोपन्यासफलमिति वक्तुमाह,

स्थित्या प्रवृत्त्यादिषु, इष्टसिद्धिरसिद्धिर्वा

इति । समानमिदमुभयसाधनाङ्गवचनत्वनिबन्धनमानर्थक्यादिति भावः । न च पर
एव साधनवादी, यतोऽस्य द्विधानिष्टमापाद्यमानं शोभेत । अनिष्टमप्यस्य प्रकरणापन्नं
नित्यैकसर्वज्ञत्वे तत्त्वमेव विश्वस्यापादयितुमारब्धं न यत्किञ्चिदिति । एवं तर्हि साधनोप
न्यासेऽपि किमसिद्धिनिबन्धनमिति वक्तव्यम् ।

यत्पुनरुक्तम्,

विशेषेऽनुगमाभावः
2473

इति, तत्र यद्यपि सर्वगसर्वज्ञत्वादिभिरन्वयेऽसिद्धिसंशयौ यथायोगम्, तथाप्येकत्वेन
मा भूताम्, तदेकप्रयत्नवत् कर्तृसिद्धौ सिद्धमशेषं साध्यम् । दृष्टश्च कुलाल एकोऽनेक
घटपिठरादिकारक इत्याशङ्क्य एकत्वेऽप्यन्वयमापादयन्नाह,
दृष्टान्ते

इति । असिद्धिरिति वर्तते । अयमभिप्रायः । न प्रकृतमेव घटपिठरादिकार्यमेकेन
कृतमिति सर्वस्य तथाभावः । तत्रानेककुलालादिव्यापारः स्फुटमवधार्यते । तत् कुत
एकेन यत्नवता दृष्टकार्याणामन्वय इति ? अथवा कुलालो नामैकः कश्चिदस्ति भूत
भौतिकसंवित्तिराशिरयं कुम्भकारादिप्रज्ञप्तिविषयः, करचरणसमुदायो वेति । वस्तुतः
केनैकेन करणं कुम्भादेरुपलम्भगोचर इत्यर्थः ।

अथ किमनेन निर्बन्धेन ? यादृश एव कश्चिदेकव्यहारगोचरो दृष्टः, तादृशः
संहतस्वभाव एवैकः कर्ता सर्वस्योपादानाद्यभिज्ञः सिध्यन् सर्वज्ञ एव सिध्यति । ततो
गुणान्तरतिरस्कारेऽपि तावतैवोपादेयत्वमुभयपुरुषार्थशंसितिरस्योपपद्यत इति न
काचित् क्षतिरिति, अत्रापि पक्षे तेनैव सर्वेऽमी कार्यत्वादिहेतवो व्यभिचारिण इति
व्यक्तमनैकान्तिकत्वमभिप्रेत्याह,
275

संशयोऽथवा

इति । साध्यस्येति शेषः । कुलालवत् संधातमात्रतया कार्यत्वसन्निवेशादिभावेऽपि प्रयत्न
वत्कर्तृपूर्वकत्वस्याभावात्, एतदभावेऽपि वा तस्य भावात् । तत्राप्यन्यत्कारकेष्टौ
वा अनवस्थानादप्रतिपत्तिः ।

ननु चाचेतनस्वभावः स्वयमुत्पत्तौ परं चोत्पादयितुं प्रयत्नवन्तमपेक्षते । स तु
स्वयमेव तथाविधबुद्ध्याधार इति किमपरेण ? न हि जडा घटादयः प्रकाशमपेक्षन्त
इति प्रकाशेनाप्यपरः प्रकाशोऽपेक्षितव्य इत्यस्ति नियमः । ततः केयमनवस्थेति ?

एवं तर्हि कुलालसंज्ञित एव प्रयत्नबान् बुद्धीन्द्रियादिकलापः कथमपरमपेक्षते ?
तस्माच्चेतनोऽचेतनो वा कलापः स्वभावेनैवापरचेतनमपेक्ष्य जायते जनयति वेत्युप
गन्तव्यमित्यनवस्थैव । अथ चेतनवर्गश्चेतनान्तरनिरपेक्ष एवेष्यते, तदा घटादिवर्तिनः
कार्यत्वादयोऽभिमतकारकाधिष्ठायकविपरीतनान्तरीयकाः सिध्यन्तो न विरोधदूषण
परिहारेण स्थितिमनुभवेयुः । तथाविधाधिष्ठानस्वीकारे तु स्वभावविप्रकर्षादनुप
लब्धावपि तद्व्यापारसंभावनायां न 37b तद्विपरीतदृष्टैकनान्तरीयकत्वमेषामिति
विपर्ययव्याप्तेरभावादभावो विरुद्धव्यवहारस्य स्यात् । तदापि यदि कार्यकारण
व्यवस्थानाय व्यतिरेकचिन्ताचतुरः कश्चिन्न प्रत्यवस्थानमाद्रियते, न चेदानीं तदा
रब्धमित्यास्तां तावत्,

तत् किमनेन निर्बन्धेन ? निर्बन्धे वा विरोध्यध्यक्षस्थूलदोषावतारप्रसङ्गात्
तथाप्यसिद्धिर्वेति विपरीतसिद्धिर्योजयिष्यत इति सान्तर्गर्वो गजनिमीलितेनैव वाऽव
धीर्य यथैवानेन सर्वकार्योत्पत्तौ निमित्तकारणमीश्वरो गृहीतः, तथैनं संभाव्य चेतन
स्यापि चेतनान्तरापेक्षायामनवस्थानभीरोस्तेनैवाव्यभिचारानाश्रित्य संशयमाह,—अथ
प्रयत्नवानपि कुलालो न स्वशरीरे किं तु कुम्भादौ, ततः स्वशरीरसिद्धये किं न
परमपेक्षेत ? तर्हीश्वराभिमतोऽपि परकरणप्रयत्नवान् न स्वशरीर एव, स्वात्मनि
कारित्रविरोधादिति किं न परमपेक्षेत ? न चापेक्षते । ततो यदर्थकारि कार्यादि वा
तत्प्रतियत्नवदधिष्ठितमिति तत्तेनैव व्यभिचारीति संशयसिद्धिः ।

ननु तस्य शरीरमेव नास्तीति कुतोऽनेकान्त एषः ? तदेतत् प्रकरणविस्मरण
फलम् । तथा ह्यन्वयोपदर्शनसमीहया कुलाले सांवृतमेकत्वमङ्गीकृत्य तादृक्सांवृतैक
पुरुषनिर्मेयत्वं जगतो भवतैव स्वीकृतमित्ययमस्माकमवकाशः । यदि तु वास्तवमेव
276
एकत्वं शरीरसहचारविरुद्धमनुरुध्यते, न तर्हि सांवृतमेकत्वमुपनेतव्यं दृष्टान्ते व्यापकत्वेन
कार्यादेः । नापि नाममात्रपरेण तेन व्याप्ता तत्त्वतस्तथासिद्धिप्रत्याशा फलवती । न
खलु दहनोपचरितमाणवकप्रतिबद्धवचनविशेषादिकार्यमुपलभ्य पारमार्थिकं कश्चिद्
दहनमनुमीयते ।

अस्खलन्ती एकप्रतीतिः पुरुषावयविनीति चेत् ? कः पुनरिह साक्षादुपचारत्वम्
आह ? अतस्मिस्तद्व्यवहारस्तु द्वयोः समान इत्युच्यते । शरीरत्वेऽवयविबाधकात्
एकाध्यवसायस्य भ्रमत्वमवसातव्यम्, सत्त्वेऽपि वावयविनः शरीरावयवी कराद्यव
यवा बुद्धिरित्येष कलाप एकशब्दाभिधेयः, भूतादिकलापो वेत्यपारमार्थिकत्वं सिद्धम्
अधिष्ठातुः ।

स्यादेतत् । पुरुष एव तत्राधिष्ठाता, कर्ता वा, स च शरीरादिभ्यो लब्ध
व्यतिरेक एक एवेति चेत् ?

संदृष्टकारणकलापकृतेऽपि कार्य
जन्मन्यदृष्टमपरं परिकल्प्यते यत् ।
तत्रापि दृष्टमवधूय तदेव तच्च
नानेकमित्यनवधिर्विविधो विमोहः ॥

अदृष्टस्य तावद् भाव एव दुरवधारः सहजवैषम्यादत्रानुमानस्येत्युक्तम् ।
तस्यापि दृष्टानुपलम्भसचिवप्रत्यक्षसाध्यः कारणभावः । स च दृष्टव्यवच्छेदेन तस्यैव ।
अन्यथा करचरणादेरपि व्यापारसंभवे तस्याप्यनुमानप्रसङ्गे पुनः स एव व्यभिचारः ।
अन्यथा पुरुषस्याप्यनुमानमनिबन्धनं स्यात् । एतेन चैतन्यसन्तानस्यैकपुरुषत्वपरि
कल्पनं प्रत्युक्तम्, अस्यापि करचरणादिसहकृतस्यैव 38a शक्तिप्रतीतेः, कार्यात्
तत्त्वत एवानुमानप्रसङ्गो धूमादिव सेन्धनशिखिनः ।

चैतन्यमात्रेण व्याप्तिर्गृह्यते नापरेणापीति चेत्—न, समानन्यायतया वि
भागस्य कर्तुमशक्यत्वादिति । तदयं बुद्धिशरीराव्यतिरेकिणः कारणतामन्ययोगव्यव
च्छेदेनैव वक्तुमर्हति, यतस्तन्मात्रमनुमातुमप्रतिबन्धेन शक्तुयात्, पारमार्थिकैकत्वेन
च व्याप्तिं ग्रहीतुम् । तथा च सति दृष्टं दृष्टान्वयव्यतिरेकं कारकसमुदायमपहायान्यदेव
कारणं कल्पितमित्ययमपरो धिक्कारः । तदपि यदि कथञ्चिदनेकं स्याद् विफलः सकलो
277
यत्न इत्येकमेव परिकल्पनोयमित्याकाशकमलपरिमलाकृष्टमधुकरकोलाहलप्रायमिदम्
अखिलमाकलयामः ।

तदलं देहादिव्यतिरिक्तोपक्षेपेण । तस्मात् प्रयत्नवतः कर्तुरेकत्वेन व्याप्तिर्न मुख्या,
कर्तृवाच्यस्य कुलालादेस्तत्त्वत एकत्वानुपपत्तेः । सांवृताश्रये च तादृशस्यैवानुमानप्रसङ्गेन
तेनेव व्यभिचारः कार्यत्वादेरिति संशयः साध्यस्येत्युक्तम् ।

ननु तथापि तादृशः साध्यस्यासिद्धौ केन व्यभिचारः, सिद्धौ च व्यभिचारः
किं करिष्यति ? व्यभिचारादसिद्धिरेवेति चेत् ? असिद्धौ तर्हि व्यभिचारोऽपि नास्तीति
कुतोऽसिद्धिरिति सिद्धिरिति वा व्यवतिष्ठते ? कार्यत्वादेश्च वस्तुधर्मस्य वस्तुसन्नेव धर्मी
भवितुमर्हतीति न चोद्यम्, अभ्युपगमविरोधस्यानेन क्रमेण प्रतिपादयितुमारब्धत्वात्
तत्त्वतः । अस्ति चासौ साध्यस्य साधनत्रैरूप्येण त्रिरूपसाधनस्य च यथाभिमतसाध्येन,
तत्र साध्यसत्त्वे विपक्षव्यतिरेकस्यासत्त्वात्, स्वाभ्युपगमसिद्धतया प्रमाणसिद्धमिति
साधारणानैकान्तिकमुच्यते,

तत्राभ्युपायः कार्याङ्गम्
2474

इति वचनात् । पराभ्युपगमः खलु न प्रमाणमिति युक्तम्, तद्बाधनायैव प्रवृत्तेः ।
अतएव न स्वतन्त्रहेतावस्याश्रयः । प्रसङ्गस्य च विपर्यय एव फलम् । स्वोपगमस्य
त्वप्रमाणत्वे वचनोच्चारणमेव न स्यात् । स्वदृष्टार्थप्रकाशनं च वचनं परार्थानुमानात् ।
न चैवं स्वदृष्टरूपत्रयप्रकाशनमनेन कृतं भवतीति तद्वादिनोऽसाधनाङ्गवचनं निग्रह
स्थानमुचितम् । परस्य तु दोषोद्भावनमेवेति स्थितम् । अथवा अन्वयघटनार्थमेवैकेन
करणमुपनीतमाशङ्क्याह,
दृष्टान्ते संशयोऽथवा
प्र. वा. १. १२

इति । दृष्टान्तेऽसिद्धिरेव तावदेकेन करणस्य । सिद्धावपि वा सन्देह एव कस्य, यदर्थम्
उपनीयते दृष्टान्तः ? सर्वोपसंहारवत्या व्याप्तेरिति यावत् । तथा हि न दृष्टान्ते दृष्टम्
इत्येव यस्य कस्यचिद् वस्तुनो व्याप्यव्यापकभावप्रतीतिः, अतिप्रसङ्गात्, अपि तु
प्रतिबन्धसिद्धेः । न चेह किञ्चिन्निबन्धनमस्तीति साध्यधर्मिणि सिध्यन्तोऽपि कर्तृत्वा
दयो नैकत्वनियतमात्मानमातन्वन्तीति विपर्यये बाधकप्रमाणाभावात् प्रयत्नवत्कर्तृ

278
नियता 38b अपि कार्यत्वादय एककर्तृकत्वे साध्ये सन्दिग्धविपक्षव्यावृत्तिकतया
संशयहेतव एवेति ।

तथा च शंकर एवाह, न कर्तुरेकत्वेनाचेतनोपादानत्वस्याव्यभिचार इत्यादि ।
यत् पुनराह, न चैवमचेतनोपादानत्वस्य प्रयत्नवदधिष्ठानमात्रेण व्यभिचार इति, न
तन्मात्रेण प्रस्तुते कश्चिदुपयोगः । विवादाधारधर्मसिद्धेस्तत्सिद्धौ प्रतिबद्धत्वस्य पूर्वं
प्रतिपादनादिति ।

॥ प्रथमः खण्डः ॥