निवीताधिकरणम्

स एव श्रुत्यादित्रितयस्य प्रकरणेन सह विरोधाविरोधविचारः । तत्र ‘निवीतं 890 मनुष्या933णाम्’ इत्यत्रैते पक्षा भवन्ति, किमयं शुद्धमनुष्यधर्मः कर्मयुक्तमनुष्यधर्मो वाऽथ शुद्धकर्मधर्मः । अथवा प्रकरणे यन्मनुष्यप्रधानं कर्मान्वाहार्यपचनादि, तस्य धर्म उताप्रकरणे या मनुष्यपूजाऽऽतिथ्यात्मिका तस्यां निवेश इति । यौ तु विध्यर्थवादपक्षौ तौ शेषलक्षणेऽनौपयिकौ प्र934माणलक्षणविषयत्वाद्विधिवान्निगदार्थवादमध्ये च निर्णीतत्वादिह नैवोपन्यसनीयौ । यस्तु भाष्यकारेणोपन्यासः कुतः स कृत्वाचिन्तान्यायेनेति द्रष्टव्यम् । न हि विधित्वमनभ्युपेत्य मनुष्यधर्मादिपक्ष उपपद्यत इति । विधिरिति कृत्वा प्रथमं प्रस्तुत्य पश्चाल्लक्षणानुरूपं विचार्यान्ते पूर्वावस्थितमेवार्थवादत्वमुपसंहरिष्यति । परेष्वप्यधिकरणेष्वेतद्यथासंभवं योजयितव्यम् । तत्र ‘विधि935र्वा स्यादपूर्वत्वाद्बादमात्रं ह्यनर्थकम्’ इत्यनेनैव तावद्विधिः । अहीनाद्यधिकरणन्यायेन च षष्ठीश्रुत्या मनुष्यधर्मः । तेषां स्वत्वेन तत्प्रतीयते न मनुष्यास्तदङ्गत्वेन । गुणविभक्तिनिर्देशाभावात् । अर्थादेव च तत्प्राप्तौ सत्यां नैव मनुष्यग्रहणं क्रियते । कृतं चैतत् । अतोऽपि मनुष्यधर्म इत्यवगच्छामः ॥ १ ॥

891 निवीतं केचिद्गलवेणिकाबन्धं स्मरन्ति । केचित्पुनः परिकरबन्धम् । तत्र गलवेणिकाबन्धो युद्धादन्यत्र न प्राप्नोति । परिकरबन्धस्तु सर्वकर्मस्वव्यग्रताकरत्वात्प्राप्त इति तदाश्रयणेनानुवादमाह । स तु किंप्रयोजन इ936त्युत्तरत्र वक्ष्यते ॥ २ ॥

विधिरेवायम् । कुतः । पूर्ववत्त्वाद्ध्यनुवादो भवेदत्यन्तप्राप्तावित्यर्थः । न चायमत्यन्तप्राप्तः । तेन विनाऽप्यव्यग्रतायाः शक्यत्वात् । कण्ठबन्धः पुनः प्रायेणाप्राप्त एवेत्यस्ति नियमविधेरवकाशः ॥ ३ ॥

सति विधित्वे कर्मधर्मप्रायप्रदेशाम्नानात्कथंभावसंस्पर्शात्कर्मधर्मः ॥ ४ ॥

द्वेधा संभवे तादृशी प्रमाणगतिराश्रयणीया या प्रमाणान्तरं न बाधते । यजुर्वेदाम्नानाच्च निवीतादेराध्वर्यवसमाख्योपबद्धं वाक्यम् । तत्र यदि कर्मधर्मोऽयं ततः कर्तृविशेषापेक्षायां सत्यां समाख्ययाऽध्वर्युनियमात्समाख्याऽर्थवती भविष्यति । मनुष्यधर्माणां तु न समाख्या नियामिकेति वक्ष्यामः । तत्रासौ बाध्येत । इतरथाऽनुग्रहीष्यते । तस्मादपि कर्मधर्मः ॥ ५ ॥

892 प्रथमं तावन्मनुष्यधर्मबलीयम्त्वेन कर्मधर्मत्वं निराकरोति । तथा हि सुखं सूचितः पक्षः परिग्रहीष्यते । श्रुत्या हि प्रकरणसमाख्ये बाधित्वा मनुष्यधर्म एव प्राप्नोति । तदुच्यते । सर्वानुग्रहार्थमयं पक्षोऽस्तु । मनुष्याणामिति तत्प्रधानकर्मव्यतिरेकजनिता षष्ठी न निवीतं गृह्णाति । तदपि च प्रकरणादन्वाहार्यदानादि प्रतीयते नान्यत् । अत एष वाक्यार्थो यदिह मनुष्याणां कर्म तत्र निव्यातव्यमिति ॥ ६ ॥

प्रकरणरहितमनुष्यप्रधानो वा स्यात् । कुतः ।

तुल्यवद्धि प्रसंख्यानं दृश्यतेऽस्मिन्विधित्रये ।
तस्मान्नरप्रधाने स्यात्पितृदेवप्रधानवत् ॥

यथैव ‘उपवीतं देवानाम्’ ‘प्राचीनावीतं पितॄणाम्’ इति च परस्परनिरपेक्षदेवपितृप्रधानकर्मण्येष विधिरेवं तद्बुद्ध्यनुवृत्तेर्मनुष्याणामित्यपि तत्प्रधानकर्म प्रत्येष्यामः । कथं गम्यत इति—पृष्टे मनुष्याणामिति षष्ठ्यन्तेन संबन्धात्— इत्येतावत्युत्तरे दत्ते मनुष्याणामेव प्राप्नोतीति पुनश्चोदयति । अथवा सम937स्त एव चौकः प्रश्नः । 893 सत्यमेवं प्राप्नोति । फलकल्पनाप्रसङ्गगौरवात्तु परित्यज्यते । तस्मात्तदीयकर्मव्यतिरेकादेव षष्ठी । तत्संबद्धस्य निवीतस्य नासंबद्धफलकल्पना भविष्यति । मनुष्यग्रहणं च तत्प्रधानकर्मप्रतिपत्त्यर्थमिति नानुपात्तसंबन्धापत्तिः । न च तस्मिन्सति प्रकृतैकवाक्यता घटते ॥ ७ ॥

सर्वथा नात्रैकोऽपि पक्षो निर्दोषः । प्रकरणसंबन्धे वाक्यसंबन्धबाधादन्वाहार्यादिसंबन्धे वाक्यभेदात्प्रकरणस्य च विशेषकत्वानुपपत्तेरातिथ्यादिसंबन्धोऽत्यन्तनिर्मूल एव । षड्भिरपि श्रुत्यादिभिरसंस्पर्शान्मनुष्यसंबन्धेन तदनुमीयते । तच्च न युक्तम् । तस्या अपि षष्ठ्या निवीतपदसंबन्धिव्यतिरेकजनितत्वप्रतीतेः । न ह्य938नुपात्तसंबन्धिव्यतिरेकैर्विभक्तय उत्पद्यन्ते । तस्मान्मनुष्यार्थतैव प्राप्नोति । तत्रापि च प्रकरणसमाख्यावाधफलकल्पनाप्रसङ्ग । सति च गत्यन्तरे न युक्तं तदाश्रयणम् । अस्ति चौदु939म्बराधिकरणसिद्धमर्थवादत्वं गतिः ॥ ८ ॥

894 ‘उपव्ययते’ इत्यनेन च विधिनैकवाक्यत्वं निवीतप्राचीनावीतयोर्दृश्यते । तच्चानुवादद्वारेण स्तुतौ सत्यामवकल्पते न विधौ । न ह्यङ्गाङ्गित्वरहितयोरुभयोः स्वतन्त्रयोः परस्परासंबद्धयोर्विधीयमानयोरेकवाक्यता भवति । वचनव्यक्तिभेदात् । अन्या हि प्रधानविधेस्तावन्मात्रोपसंहारिणी वचनव्यक्तिरन्या च स्तुतेः पराङ्गभावानुगतरूपा । न चात्र विधायको दृश्यते । स यदि वाऽध्याहर्तव्योऽथवाऽऽतिथ्यादिगतस्याप्यङ्गत्वाय परिकल्प्येत । न च तत्कल्पनं युक्तम्, अविहितस्यानङ्गत्वादनङ्गस्य च प्रयोगवचनेनाग्रहणात् । व940क्ष्यति हि न चाविहितमङ्गं भवतीति । तत्राङ्गत्वाद्विधिर्विधेश्चाङ्गत्वं कल्प्यत इतीतरेतराश्रयत्वं प्राप्नोतीति । प्रत्यक्षेण च विधिना यथाकथंचिदेकवाक्यतायां संभवन्त्यां न परोक्षैकवाक्यता युक्ता । तथा सति चानेकादृष्टकल्पना स्यात् । तस्मादौचित्येन स्तुतिः । यथा निवीतप्राचीनावीते मनुष्याणां पितॄणां च प्रशस्ते तथोपवीतं देवानामिति । लोकेऽपि चैवं दृश्यते । यथा वसिष्ठस्यारुन्धती, यथा शशाङ्कस्य रोहिणी 895 यथा नलस्य दमयन्ती, तथा देवदत्तस्य यज्ञदत्तेति । विपर्ययेण वा स्तुतिरिति । तयोः पितृमनुष्यविषयत्वेन देवान्प्रत्ययोग्यत्वादुपवीतमेव देवानां प्रशस्तम् । अतश्च देवकर्मणि दर्शपूर्णमासाख्ये तदेव कर्तव्यमिति ॥ ९ ॥

इति निवीताधिकरणम् ॥ १ ॥
  1. निवीतं मनुष्याणामित्यत्रेति—उपवीतप्राचीनावीतवाक्ययोर्वक्ष्यमाणसर्वपक्षासंभवान्निवीतवाक्यमात्रे विचारः क्रियत इति ध्येयम् ।

  2. प्रमाणलक्षणविषयत्वात्—प्रथमाध्यायविषयत्वादित्यर्थः ।

  3. ( अ॰ १ पा॰ २ अ॰ २ सू॰ १९ )

  4. ‘अर्थवादो वा प्रकरणात्’ इत्यस्मिन्सूत्र उपवीतस्तुत्यर्थ इति वक्ष्यत इत्यर्थः ।

  5. समस्त एव चेति—‘कथं गम्यत इत्यादिना—न मनुष्यप्रधाने ‘इत्येवमन्त इत्यर्थः ।

  6. अनुपात्ताः संबन्धिनो येषां संबन्धाख्यानां व्यतिरेकाणां तैरिति विग्रहः ।

  7. ( अ॰ १ पा॰ २ अ॰ २ )
  8. ( अ॰ ३ पा॰ ४ अ॰ ४ सू॰ १३ ) इत्यत्र भाष्यकार इति शेषः