पर्णतादेः प्रकृत्यर्थताधिकरणम्
1025 इदानीमनारभ्याधीतानां प्रकृतिलिङ्गसंयुक्तानां प्रकरणसंबन्धे सति किं प्रकृतिप्रकरणसंबन्ध उत सर्वार्थत्वमिति विचारः । तत्र श्रुत्यादिषट्काभावेऽप्यश्वप्रतिग्रहेष्टिवत्क्रतुसंबन्धो योजयितव्यः । स्रुवाद्युद्देशेन हि, अत्र खादिरत्वादीनि विधीयन्ते । ते च स्रुवादयः ‘स्रुवेणावद्यति’ ‘स्रुवेणाऽऽधारमाधारयति’ ‘स्रुवेण पार्वणौ जुहोति’ जुह्वा जुहोति’ इत्यादिभिर्वाक्यैः कर्माङ्गत्वेन प्रतिपादिताः । तत्संबन्धित्वेन चोपनीतमात्राण्येव खादिरत्वादीनि स्रुवसंस्पर्शिना क्रतुकथंभावेन गृह्यन्ते । न हि तेषामन्यत्फलमस्तीति चतुर्थे वक्ष्यामः । न च निर्व्यापाराज्जातिविशेषात्फलोत्पत्तिरवकल्पते । न च व्यापारसंबन्धजननार्था काचित्क्रिया प्रस्तुता दृश्यते । नापि वाक्योपात्ता । न चात्र स्रुवादिर्विधीयते, वाक्यभेदप्रसङ्गात् । अतः स्रुवाद्यनुवादेन विधीयमानानां खादिरत्वादीनां स्रुवादिस्वरूपेऽन्य1219थाऽप्युपपद्यमानेऽनर्थकं विधानमिति तदुपप्लावितकर्मसंबन्धो विज्ञायते । तत्रानारभ्यवादत्वादेव स्रुवादिसंबन्धस्य प्रकृतिविकृतिष्वविशेषात्सर्वार्थत्वमिति पूर्वः पक्षः ॥ १ ॥
सर्वविधीनामप्राप्तस्वविषयत्वाद्यत्र प्रमाणान्तरेण प्राप्तिर्नास्ति तत्र खादिरत्वाद्युपदेशः । प्रकृतौ च न कुतश्चित्प्राप्तिः । विकृतिष्वङ्गान्तरार्थमवश्यकल्पनीयेनातिदेशेन खादि1026 रत्वाद्यपि प्राप्नोतीति नोपदेशमपेक्षते । तेन द्विरुक्तस्यासंभव इत्याह । तव द्विरुक्तत्वादद्विरुक्तत्वाद्वा ममेति सूत्रम् ॥ २ ॥
प्राप्तेरिति वा पाठः । सत्यं द्विरुक्तत्वमन्याय्यं, तत्र कुत एतदतिदेशप्राप्तत्वादुपदेशो विहन्यते, न पुनरुपदेशसिद्धमतिदेश एव प्रापयेदिति । युक्तं च पदार्थविप्रकर्षादतिदेशो न स्यात् । संनिकर्षात्तु पूर्वतरप्रवृत्तोपदेशाश्रयणम् । अथोच्येत, सामान्यविषयत्वादुपदेशो दुर्बल इति । तदतिदेशेऽपि सर्वाङ्गविषयत्वादविशिष्टम् । तस्मात्स र्वार्थोऽनारभ्यवाद इति ॥ ३ ॥
स्थितायां प्रतिज्ञायां चोदयति । यद्यतिदेशादुपदेशो बलवानेवं सति तेनैवोपदेशेनावरुद्धत्वादतिदेशो नैव स्यात् । कुतः । शक्नोति हि प्रकृतिविकृतिसाधारणं खादिरत्वं प्राकृतोपकारसाधने दृष्टशक्तित्वाद्विकृतिं निराकाङ्क्षीकर्तुम् । ततश्च प्रयाजादिदर्शनं विरुध्यते । तस्मादतिदेशविनिर्मुक्तायां प्रकृतावेव निवेशो युक्त इति ॥ ४ ॥
नैतावता शक्यं सर्वार्थत्वं व्यावर्तयितुम् । न ह्येकस्मिन्नंशेऽतिदेशो बाधितः सर्वत्रैव बाधितो भवति । तद्यथा शरैः कुशेषु निवर्तितेष्वपि न प्रयाजादयो निवर्त्यन्ते । 1027 समानविषयमात्रे हि बाधो विज्ञायते । तेन खादिरत्वादिप्राप्त्यंशमात्रादतिदेशो निवर्तते । न च खादिरत्वमक्रियात्मकत्वाच्छक्नोति विकृतिं निराकाङ्क्षीकर्तुम् । युगपच्च प्रकृतिविकृत्योः प्रवर्तमानमशक्यं कॢप्तोपकारत्वेन निरूपयितुम् । साकाङ्क्षं तु तत्, स्रुवप्राप्त्यभावात् । न चातिदेशाभ्यनुज्ञामन्तरेण स्रुवप्राप्तिः संभवति । न चैतद्वाक्यं स्रुवस्यापि विधायकम् । प्रधान क्रियानुपादाने सति विशिष्टविधानेऽनुपपद्यमाने वाक्यभेदप्रसङ्गात् । तस्मादनारभ्यवादविधिप्रापिते स्रुवस्य खादिरत्वे तद्वर्जमतिदेशः कल्पयितव्यः ॥ ५ ॥
अत्र तार्किकः कश्चिदाह प्रकृत्यर्थोऽनारभ्यविधिः संक्षेपविस्ताराभ्यां विधीयमानत्वात्प्रयाजादिवदिति ॥ ६ ॥
न तावदीदृ1220शेऽर्थेऽनुमानस्य गतिरित्युक्त1221म् । अपि चानुमानमप्येतन्न भवति । 1028 अनैकान्तिकत्वात् । विकृतावपि संक्षेपविस्ताराभ्यां विधिरुपलभ्यते । तत्रैतत्स्यात् । एकेन विहितत्वात्संक्षेपविस्तारयोरन्यतरो नैव विधायक इति । तदपि प्रकृतौ तुल्यमिति हेतोरसिद्धता । तेनावश्यं विध्यनुवादनिरपेक्षं संक्षेपविस्ताराभिधानमात्रं हेतुर्वक्तव्यः । स चानैकान्तिक इत्युक्तम् । एवं वा । स्वगोत्रेण सूत्रद्वयं गमयितव्यम् । इति चेत्—तत्सर्वार्थत्वं पश्यसि, तदयुक्तम् । यत्र हि पात्राणां विनियोगोत्पत्तिस्तत्र तदङ्गं जातिर्विधातुं शक्यते । न च विकृतावुत्पत्तिः । अतः पात्रशून्यायां तस्यामशक्या जातिर्विधातुम् । प्राप्तिवैषम्यात् । यदि हि प्रकृतिविकृत्योस्तुल्यवत्पात्राणि प्राप्नुयुस्ततः सर्वावस्थोद्देशेन जातिविधानमवकल्पेत । न त्वेवम् । तस्मात्प्रकृत्यर्थतैक युक्तेति । तत्रोत्तरं ‘न तुल्यत्वात्’ इति । सर्वथाऽनारम्यवादः प्राप्तिमपेक्षते । तत्र या चोपदेशेन प्राप्तिर्या चातिदेशेन प्राप्तिः सा सर्वाऽपि प्राप्तित्वेन तुल्या । यद्यप्युपदेशातिदेशयोः संनिकर्षविप्रकर्षौ विद्येते तथाऽपि तौ स्वविषय एव बलाबलं कुरुतो नानारम्यवादेन सह । अनारभ्यवादो हि पात्रद्वारेण क्रतुगामित्वाद्धिप्रकृष्टतरः । तस्मात्सर्वार्थः । तद्वर्जं चातिदेशः ॥ ७ ॥
‘प्रकृतौ वा द्विरुक्तत्वात्’ इत्येतदेव न्याय्यम् । यत्तु तद्वर्जं यापयिष्यतीति । तदयुक्तम् । कुतः ।
पदार्थातिदेशपक्षे शास्त्रातिदेशपक्षे वा तद्भेदात्कदाचिद्भेदो भवेत् । यागगतस्तु व्यापारोऽतिदिश्यत इति दशमे वक्ष्यामः । स च निरवयक्त्वाद्युगपदतिदिश्यते । अनेन चाऽऽत्मसिद्धयर्थं युगपदेव प्रयाजाद्यपूर्वाणि गृह्यन्ते । तैश्च प्रथाजादयः । प्रयाजादिभिरपि स्वशास्त्राणि । तेन प्रकृतिवदित्येवंरूपस्थातिदेशस्यैकत्वा1029 त्सर्वाङ्गेष्वविशिष्टस्य सर्वत्र प्रवृत्तिरप्रवृत्तिर्वा, नैकदेशेषु । शरैरपि कृशाः प्राप्ता एव बाध्यन्त इत्युक्तं बलाबलाधिकरणे । तद्यदि तावदनारभ्यवादानुरोधेन स्वादिरत्वादिविवयेऽतिदेशः परित्यज्यते तत एवाङ्गन्तरेष्वपीति सर्वनिवृत्तिप्रसङ्गः । तत्र चोक्त1222म् । अथ केषांचित्प्राकृतानामनुरोधेन तद्विषयोऽतिदेशः प्रमाणं क्रियते, ततः स्वादिरत्वादिप्राप्तिरप्यविशिष्टेति स्फुटं द्विरुक्तत्वं प्राप्नोति । यागगतव्यापारापेक्षित्वाच्च स्वप्रकरणाम्नानमप्यतिक्रम्य विकृतयः प्राकृतं तावदगृह्णन्तीति सर्वत्र स्थापयिष्यामः । तेनाप्यनारभ्यवादादतिदेशप्राप्तेः प्राथम्यम् । अवश्यं च प्रकृतिषु स्रुवादिप्राप्तिरपेक्षितव्या । यावता च यत्र न स्रुवादयः प्राप्नुवन्ति तावता खादिरत्वादयोऽपीति नोपदेशविषयत्वं घटते । न चैषां क्रतुसंबन्धो विस्पष्टः । सोऽप्यन्यथाऽनुपपत्त्या स्रुवादिद्वारेण कल्पयितव्यः । सर्वार्थत्ववादी च प्रकृतिसंबन्धं तावदभ्युपगच्छति । तेन च परिहृत आनर्थक्ये विकृतिसंबन्धो निष्प्रमाणकः । प्रमाणवत्तरो ह्यतिदेशेन क्रतुसंबन्धः । येषां तु क्रतुसंबन्ध एव प्रत्यक्षस्तेऽनारभ्यवादा अपि सर्वार्था एव । यथा ‘एष वै सप्तदशः प्रजापतिर्यज्ञमन्वायत्तः’ इत्येवमादयः । तस्मात्खादिरत्वादि प्रकृत्यर्थमिति सिद्धम् ॥ ८ ॥
-
अन्यथा—काष्टान्तरेणेत्यर्थः ।
↩ -
ईदृशेऽर्थे—शब्दैकसमधिगम्येऽर्थ इत्यर्थः ।
↩ -
उक्तमिति—तर्कपादे प्रत्यक्षसूत्रे श्लोकवार्तिके । ‘तस्माददृष्टपूर्वत्वात्केनचिद्वस्तुना सह । धर्मस्य नानुमेयत्वमसाधारणवस्तुवत् ॥ ९९ ॥ इत्यादिनोक्तमित्यर्थः ।
↩ -
उक्तमिति—‘न चोदनैकार्थ्यात्’ इति सूत्रे ‘न च खादिरत्मवक्रियात्मकत्वाच्छक्नोति विकृतिं निराकाङ्क्षीकर्तुम्’ इत्यादिनेत्यर्थः ।
↩