शेषप्रतिज्ञाधिकरणम्

647
द्विलक्षण्याः परं शिष्टं यावत्किंचन लक्षणम् ।
तत्सर्वं वक्तुमारब्धमथातः शेषलक्षणम् ॥

तथा च प्रथमसूत्रोपात्तप्रतिज्ञापिण्डव्याख्याप्रदेशप्रद509र्शने धर्मप्रमाणस्वरूपविषयलक्षणद्वयार्थं चोदनालक्षणसूत्रेणैकेनैव सूत्रितं वर्णयित्वा कानि अस्य साधनानि—अङ्गानिकानि च साधनाभासानि—अनङ्गानीति फलार्थत्वातदर्थत्वाभ्यां क्व पुरुषः प्रधानं धर्मस्य क्व वा पुरुषो गुणभूत इत्यादि यावत्किंचन मीमांसितव्यं तत्सर्वं शेषलक्षणेनैव व्याख्यातम् । शेषैः समस्तैरेव लक्षणैरित्यर्थः । इह लक्षणानां बहुत्वेऽपि यदेकवचनं कृतं तल्लक्षणत्वसामान्यसंख्यामात्रविवक्षया ।

यत्तु शेषः परार्थत्वादित्यनन्तरलक्षणम् ।
तदङ्गत्वस्य वाच्यत्वादादौ तन्मात्रगोचरम् ॥

बहुष्वपि हि लक्षणार्थेषु विवक्षितेषु क्रमवशादेकस्तावदङ्गत्वरूपः शेष एतल्लक्षणगोचरः परार्थत्वहेतुकः प्रतिपाद्यते । समासश्च द्वेधा विगृह्य द्वयोर्वाक्यार्थयोः प्रदर्शनीयः । शेषं च तल्लक्षणं च, शेषस्य वाऽर्थस्य लक्षणमिति । षष्ठीसमासमात्राश्रयणेन वा यथाव्याख्यायमानार्थम् ।

अङ्गलक्षणमेवेदमिहोक्तं शेषलक्षणम् ।
तद्विशेषप्रपञ्चत्वात्तत्रान्यान्तर्गतिस्थितेः ॥

सर्वेषां हि लक्षणान्तरार्थानां प्रयोज्याप्रयोज्यप्रयोजकाप्रयोजकषड्विधक्रमनियमफलवत्कर्मविषयकर्त्रधिकाररूपाणां तावदङ्गात्मकशेषविशेषप्रकारत्वाल्लक्षणान्तरगोचराणामपि शेषलक्षणान्तर्गतत्वावधारणस्थितिः । तथा हि—

प्रयोजकाः प्रयोक्तारः शेषाणामेव शेषिणः ।
क्रमोऽपि शेष एवकैप्रयोगवचनाश्रयः ॥

एकफलसाधनानामर्थानां ह्येकफलवदुपकारोपनिबद्धानां वैकप्रयोगवचनचोदितानां यौगपद्यानुष्ठानाशक्तेः सामर्थ्येनाङ्गभूतः क्रम आपद्यमानः श्रुत्यर्थपठनस्थानमुख्यप्रावृत्तिकक्रमाख्यप्रमाणषट्कवशेन व्यवस्थाप्यते ।

648
अधिकारोऽपि यज्ञेषु कर्तुः शेषस्य चिन्त्यते ।
भाव्यानां भावकः कर्ता द्रव्यं को नाम कर्मणाम् ॥
तथा चास्य विशेषेण सूत्रबद्धैव शेषता ।
पुरुषश्च पुनः शेषः कर्मार्थत्वेन चोदनात् ॥

वक्ष्यति हि ‘पुरु510षश्च कर्मार्थत्वात्’ इति जैमिनिः ।

तथाऽनाम्नातशेषाणां शेषिणां सप्तमादिभिः ।
शेषसद्भावतद्रूपपरिमाणादिनिर्णयः ॥

तत्र तु—

सप्तमेनातिदेशेन शेषाः सन्तीति साधिते ।
ततोऽष्टमे नये यस्य यतश्चेति निरूपणा ॥
नवमेऽर्थप्रधानत्वात्तदधीनाऽन्यरू511पता ।
इयत्ता दशमे शेषबाधाभ्युच्चयचिन्तया ॥
प्रयोगपरिमाणं च तत्तन्त्रावापलक्षणम् ।
एतदेव प्रसङ्गेन परार्थाङ्गोपजीवनात् ॥
अन्यार्थानुष्ठितैः शेषैरुपकारेऽल्पकल्पना ।
प्रसङ्गे तदभावे च स्याद्भूयिष्ठप्रकल्पना ॥
अथवाऽस्त्विदमेवैकं तृतीयं शेषलक्षणम् ।
तदेव सूचितं वक्तुमथातः शेषलक्षणम् ॥
अन्यानि पृथगारम्भैर्लक्षणानि करिष्यति ।
इदं सपरिवाराणां शेषाणामेव लक्षणम् ॥

तत्राथशब्द आनन्तर्यपूर्वप्रकृतापेक्षाधिकाराणामेकं सर्वान्वा विवक्षित्वा प्रयुज्यते । प्रागुक्तमेदलक्षणानन्तरोक्तत्वात्पूर्वप्रकृतमपेक्ष्य शेषलक्षणमारभ्यते । कुत इति हेत्वपेक्षायामत इति हेतुव्यपदेशः ।

यस्माद्भेदमविज्ञाय न शक्यं शेषलक्षणम् ।
विज्ञातुमत एतस्य त512दनन्तरमुच्यते ॥
भिन्नानां हि पदार्थानां शेषशेषित्वसंभवः ।
एकत्वे नापदिश्येत कः शेषः कस्य शेषिणः ॥
भेदानन्तरवक्तव्यं शेषलक्षणमेव च ।
649
प्रयोजकक्रमादीनां शेषत्वाधीनचिन्तनात् ॥
अयमेव च संबन्धः संमतोऽध्याययोर्द्वयोः ।
अस्मिन् हि सति सूत्रोक्ते नान्यो भाष्यकृतोदितः ॥
पूर्वयोर्नास्ति संबन्धः सूत्रोक्तोऽध्याययोर्द्वयोः ।
प्रथमेऽध्याय इत्यादिभाष्येणातोऽभ्यधायि सः ॥

अर्थद्वारो ह्यध्यायादिसंबन्धो न ग्रन्थस्वरूपाश्रय इति संक्षेपोक्तिपिण्डीकृतवृत्तवर्तिष्यमाणाध्यायार्थप्रदर्शनपूर्वं भाष्यकारेणैव संबन्धः पूर्वाध्याययोरभिहितः । इह तु सूत्रकारेणैवाथातःशब्दाभ्यामुपनिबद्ध इति स एव व्याख्यातः—नानाकर्मलक्षणं वृत्तमिति च ।

प्रधानमात्रमेवोक्तं नोपोद्धातादिविस्तरः ।
नानाकर्मत्वमात्रं हि शेषलक्षणसिद्धिकृत् ॥

प्रथमाध्यायप्रतिपादितो हि प्रमाणविवेकविध्यर्थवादमन्त्रस्मृतिगुणविधिनामधेयवाक्यशेषार्थकृतसंदिग्धविधिनिर्णयप्रविभागः प्रत्येकं भेदादिलक्षणेषु भेदेनोपयोक्ष्यत इति प्रपञ्चेनानुभाषितः । तथा चाभ्यासाधिकरणे513 स्थितवेदप्रमाणलक्षणबलेनोक्तम् ‘अविशेषा514दनर्थकं हि स्यात्’ इति । विधेयान्तररहितश्चानन्यपरो विधिः कर्मस्वरूपमेव विदधत्पूर्वविहितादवश्यमेव कर्मान्तरं करोतीति विधित्वनिर्णयफलोपजीवनम् ।

तथाऽर्थवादविज्ञानाद्विप्ण्वादिगुणकास्त्रयः ।
यागा न कल्पितास्तेषां विधिशक्तेरसंभवात् ॥

जामित्वाजामित्वोपक्रमोपसंहारमध्यपातिनो हि ‘विष्णुरुपांशु यष्टव्योऽजामित्वाय’ इत्येवमादयोऽन्तरालसंबन्धविध्येकवाक्यत्वेनार्थवादत्वात्पृथग्विधित्वमलभमाना न देवताविशिष्टकर्मत्रयविधानार्था विज्ञायन्ते ।

मन्त्राणामपि यत्कार्यं विहितार्थप्रकाशनम् ।
तेन गोदानगोयागौ नाभ्यासाद्भेदमागतौ ॥

यच्छब्दामन्त्रणोत्तमपुरुषाद्युपहतविधिशक्तयो हि मन्त्रा धर्मसाधनत्वेनोच्यमा515ना ‘देवांश्च याभिर्यजते ददाति च’ इत्येवमादिभिराख्यातपदैः पुनः पुनः श्रुतैरपि न कर्मान्तरं कल्पयन्ति ।

तथा शब्दार्थसंबन्धस्मृतितत्त्वावधारणात् ।
प्रक्षेपाधिकतामात्राद्यागाद्धोमस्य भिन्नता ।
650
तथा न भिद्यते कर्म काठकादिसमाख्यया ।
ग्रन्थनामस्मृतेर्लोके निमित्तस्मरणादपि ॥
कृतकं चाभिधानं यदन्यैरादिमदुच्यते ।
निमित्तप्रभवत्वेन सूत्रकारस्य तन्मतम् ॥
कठेन प्रोक्तमित्येवं तेन516 प्रोक्तमिति स्मृतेः ।
ग्रन्थश्च प्रोच्यते नार्थः स ह्यनुष्ठीयते नरैः ॥
तेनानुष्ठितमित्येवं यदि नाम स्मृतिर्भवेत् ।
कर्म काठकमुच्येत कठेनानुष्ठितं हि यत् ।
कठेनाध्यापितं प्रोक्तमित्यर्थे तद्धितो यतः ।
स्मर्यते ग्रन्थनामातस्तस्याध्यापनसंभवात् ॥
गुणश्चापूर्वसंयोगे नामधेयं च भेदकम् ।
भेदोपयोगिना तेन गुणनामत्वबोधयोः ॥
प्राजापत्येषु यागानामेकानेकत्वसंशये ।
कृतः प्रकृतिवच्छब्दवाक्यशेषेण निर्णयः ॥
पशुसप्तदशत्वस्य न यागेयत्तया विना ।
सिद्धिरस्तीति चार्थेन सिद्धः संदिग्धनिर्णयः ॥
एवमत्र प्रपञ्चेन पूर्वाध्यायार्थवर्णनम् ।
उत्तराध्यायसिद्ध्यर्थमनुक्रान्तमशेषतः ॥
शेषत्वे कर्मभेदात्तु नाधिकार्थोपयोगिता ।
तस्मात्स एव वृत्तोऽत्र संक्षेपेणोपसंहृतः ॥
ग्राह्यं न त्वेतदेकान्तात्संक्षेपोक्तिप्रयोजनम् ।
यतः पूर्ववदेवेह प्रपञ्चोऽप्युपयोक्ष्यते ॥
उपोद्धातोदितेनैव शेषत्वमभिधास्यति ।
भावार्थफलवत्त्वेन कर्मणामपि जैमिनिः ॥
तथा चापूर्वभेदेन कर्मभेदानुसारिणा ।
आज्यौषधादिधर्माणां व्यवस्थां सा517धयिष्यति ॥

तथा च ।

प्रसक्तानुप्रसक्तोक्तमृग्यजुःसामलक्षणम् ।
651
श्रुतेर्जा518ताधिकारः स्यादित्यस्मिन्नुपयोक्ष्यते ॥
तस्माद्विस्तरसंक्षेपावर्थमार्गावुभावपि ।
व्याख्यायामुपयुज्येते इति कश्चित्क्वचित्कृतः ॥
एवमर्थद्वये तावदथशब्दस्य वर्णितम् ।
संबन्धोऽध्याययोरुक्तो यद्वाऽर्थात्सिद्ध एव सः ॥
ततश्चापुनरुक्तत्वाद्वक्ष्यमाणार्थगोचरा ।
अधिकारार्थता वक्तुमथशब्दस्य शक्यते ॥

प्रथमाध्यायप्रथमसूत्रे हि धर्मज्ञानेच्छाया वक्ष्यमाणव्याख्येयत्वेनानुपन्यासादन्तरानुष्ठेयत्वमात्रमेवोपदेष्टव्यमित्यधिकारार्थत्वं नोक्तम् । यदपि तदुपसर्जनत्वेन धर्मज्ञानमुपात्तं तदप्यर्थव्याख्यानकरणात्स्वयमेव शिष्याणां भवतीति न सूत्रकारभाष्यकारव्याख्यातृवचनोपात्ताधिकारकर्मत्वेनावधारितम् ।

वक्तृवाक्यगतं यत्तु स्यात्किंचिदधिकारभाक् ।
न जिज्ञासापदं तस्य श्रोतुः स्वार्थनिरूपकम् ॥
इह त्वध्यायरूपं वा तदर्थात्मकमेव वा ।
व्याख्यायामधिकर्तुं हि शक्यते शेषलक्षणम् ॥

अतः परं शेषलक्षणमधिकृतं तदादरेण श्रोतव्यम् । यतोऽध्यायान्तरावकाशोऽद्यापि नास्तीति । अतः शेषलक्षणमधिकृतं वेदितव्यमिति शक्यं वक्तुम् ।

शेषस्यैवाधिकारोऽत्र युक्तो नान्यस्य कस्यचित् ।
शेषधीसिद्ध्यपेक्षत्वादन्यलक्षणवाग्धियाम् ॥

सप्तमादिषट्कस्तावदुपदेशपूर्वकातिदेशविषयत्वादुपदेशविचारार्थप्रथमषट्कसमाप्तिं प्रतीक्षते । तथाऽधिकारोऽपि यथोपदिष्टकर्मानुष्ठानसामर्थ्येन कर्तुरवधार्यत इति क्रमनियमपर्यन्तोपदेशज्ञानोत्तरकालमारप्स्यते । तथा हि ।

भारो यो येन वोढव्यः स प्रागातोलितो यदा ।
तदा कस्तस्य वोढेति शक्यं कर्तृनिरूपणम् ॥
प्रयोजकवशौ चेष्टौ मुख्यप्रावृत्तिकक्रमौ ।
चतुर्थलक्षणादूर्ध्वं क्रमतश्चिन्तयिष्यते ॥
प्रयोजकोऽपि शेषाणां शेष्यन्यस्त्वप्रयोजकः ।
652
करिष्यते परा तस्मात्तच्चिन्ता शेषलक्षणात् ॥
तेनात्रैवेदमारभ्यमिति सिद्धेऽभिधीयते ।
प्रकारैर्बहुभिश्चेदं कर्तव्यं शेषलक्षणम् ॥
स्वरूपहेतुसंबन्धतत्प्रमाणबलाबलैः ॥
ननु ज्ञेया यथा शेषाः शेषिणोऽपि तथैव नः ।
नैकस्मिन्नप्यविज्ञाते व्यवहारो हि सिध्यति ॥

उच्यते—

ज्ञातव्या उभये सत्यं सूत्रणीया न तूभये ।
अर्थापत्त्या हि सिध्यन्ति द्वितीया एकलक्षणात् ॥
तत्र सूत्राणि शेषाणां किं कार्याण्युत शेषिणाम् ।
फलप्रयासतुल्यत्वात्प्रसज्येत यथारुचि ॥
प्राधान्याच्छेषिणां साक्षाद्युक्तं वा शेषिलक्षणम् ।
न तु तत्क्रियते तत्र कर्तव्यं हि द्वयं भवेत् ॥
शेषोऽस्यास्तीति मत्वर्थादेवं शेषी निरूप्यते ।
न स शेषमविज्ञाय ज्ञातुं शक्येत केनचित् ॥
तेनोपसर्जनस्यापि शेषस्यैवेह लक्षणम् ।
क्रियते शेषिणस्त्वर्थात्तज्ज्ञानेनैव सेत्स्यति ॥
श्रुत्यादिभिः प्रमाणैश्च शेषत्वस्यैव निर्णयः ।
शेषी तद्विषयत्वेन लक्ष्यते नान्तरीय519कः ॥
श्रुत्यादिसमवाये च वक्ष्य520ते यद्बलाबलम् ।
तच्छेषिण्यविरुद्धत्वाच्छेषगोचरमेव नः ॥

तस्माच्छेषलक्षणमेव समस्ततद्गतप्रकारविशिष्टं वक्तुमिदं प्रतिज्ञातम् ‘अथातः शेषलक्षणम्’ इति । तत्र कः शेष इति—स्वरूपाभिधानप्रतिज्ञा । केन हेतुनेति—येनासौ शेष इत्युच्यते । तस्य च कारकहेतोस्तद्धर्मस्यैव लक्षणं वक्ष्यत इति प्रतिज्ञायते । तथा विनियोगप्रकारज्ञानं क्व शेषिणि कः शेषः कतमेन प्रमाणेन कतमत्प्रमाणान्तरं बाधित्वा 653 विना बाधेन वा विनियुज्यते । तथा विनियोजकश्रुत्यादिषट्कस्वरूपज्ञानं तेषां बलाबलज्ञानं च । तत्र प्रथमे पादे तावछ्रुतिविनियोगः किंचिच्च प्रासङ्गिकम् । द्वितीयपादादौ लिङ्गविनियोगः । तृतीयपादादौ तदेव प्रमाणद्वयमुपन्यस्योपक्रमोपसंहारद्वारेणैकवाक्यत्वेन सिद्धान्तस्थापनाद्विनाऽपि वाक्यग्रहणेन ‘प्रा521यदर्शनात्’ इति वाक्यविनियोगमुक्त्वा प्रकरणक्रमसमाख्याभिर्विनियोगः सूत्रोपनिबद्ध एव वक्ष्यते । ततो बलाबलाधिकरणम् । ततः परं च श्रुतिलिङ्गवाक्यानां प्रकरणेन सह विरोधाविरोधचिन्ता तावद्यावत् 522‘तुल्यः सर्वेषां पशुविधिः’ इति । ततश्च523तुर्णां क्रमेण सह पुनः सैव चिन्ता यावत् 524‘शास्त्रफलं प्रयोक्तरि’ इति । तत उपोद्धातपूर्वकं पञ्चभिः सह समाख्याया विरोधाविरोधविषयविचारेणाध्यायपरिसमाप्तिः । एतत्तात्पर्येणान्यदुपोद्घातप्रसक्तानुप्रसक्तेरिति वक्ष्यमाणमनुसंकीर्त्यते । प्रदर्शितमुच्यमानं सुखं ग्राहयिष्यते । सर्वं चैतच्छेषलक्षणप्रतिज्ञयैव पिण्डीकृतं प्रतिज्ञातमिति न भेदेन सूत्रितम् ॥ १ ॥

इति शेषप्रतिज्ञाधिकरणम् ॥ १ ॥
  1. प्रद्दर्शनावसर इत्यर्थः ।

  2. ( अ॰ ३ पा॰ १ अ॰ ३ सू॰ ५ )
  3. ऊह इत्यर्थः ।

  4. तदानन्तर्यमुच्यत इति पाठान्तरम् ।

  5. ( अ॰ २ पा॰ २ अ॰ २ )
  6. एकस्यैवं पुनःश्रुतिरिति सूत्रारम्भो ज्ञेयः ।

  7. आलोक्यमाना इति पाठान्तरम् ।

  8. ( पा॰ सू॰ ४—३—१०१ )
  9. तेषामर्थाधिकरण इति शेषः ।

  10. ( अ॰ ३ पा॰ ३ अ॰ १ सू॰ १ । )
  11. यद्विना यदनुपपन्नं तत्तस्य नान्तरीयकमित्युच्यते ।

  12. ( अ॰ ३ पा॰ ३ अ॰ ७ ) इत्यत्रेति शेषः
  13. ( अ॰ ३ पा॰ ३ अ॰ १ सू॰ २ ) एतत्सूत्रावयवः
  14. ( अ॰ ३ पा॰ ६ अ॰ ७ सू ॰ १८ ) ।
  15. ( चतुर्णामिति—श्रुतिलिङ्गवाक्यप्रकरणानामित्यर्थः

  16. ( अ॰ ३ पा॰ ७ अ॰ ८ सू॰ १८ )