अध्यायः 114
पुनर्विभाण्डकासन्निधाने तदाश्रमं गतया गणिकातरुण्या नौकारोपणेन
ऋश्यशृङ्गेऽङ्गदेशमानीते महावृष्टेराविर्भावः ॥ 1 ॥ ऋश्यशृङ्गेण
लोमपादप्रार्थनया शान्ताभिधायास्तत्सुतायाः परिणयनम् ॥ 2 ॥ लोमपादेन
क्रुद्धस् विभाण्डकस्य प्रसादनम् ॥ 3 ॥ ऋश्यशृङ्गेण पितृशासनादङ्गदेशे
तनयोदयावधिनिवासपूर्वकं ततः सहभार्यया निजाश्रमाभिगमनम् ॥ 4 ॥
रक्षांसि चैतानि चरन्ति पुत्र
रूपेण तेनाद्भुतदर्शनेन ।
अतुल्यवीर्याण्यभिरूपवन्ति
विघ्रं सदा तपसश्चिन्तयन्ति ॥
सुरूपरूपाणि च तानि तात
प्रलोभयन्ते विविधैरुपायैः ।
सुखाच्च लोकाच्च निपातयन्ति
तान्युग्ररूपाणि मुनीन्वनेषु ॥
न तानि सेवेत मुनिर्यतात्मा
सतां लोकान्प्रार्थयानः कथंचित् ।
कृत्वा विघ्रनं तापसानां रमन्ते
पापाचारास्तापसस्तान्न पश्येत् ॥
असज्जनेनाचरितानि पुत्र
पानान्यपेयानि मधूनि तानि ।
माल्यानि चैतानि न वै मुनीनां
स्मृतानि चित्रोज्ज्वलगन्धवन्ति ॥
रक्षांसि तानीति निवार्य पुत्रं
विभाण्डकस्तां मृगयांबभूव ।
नासादयामास यदा त्र्यहेण
तदा स पर्याववृते श्रमाय ॥
यदा पुन काश्यपो वै जगाम
फलान्याहर्तुं विधिनाश्रमेऽसौ ।
तदा पुनर्लोभयितुं जगाम
सा वेशायोषा मुनिमृश्यशृह्गम् ॥
दृष्ट्वैव तामृश्यशृङ्गः प्रहृष्टः
संभ्रान्तरूपोऽभ्यपतत्तदानीम् ।
प्रोवाच चैनां भवतः श्रमाय
गच्छाव यावन्न पिता ममैति ॥
लोमश उवाच ।
ततो राजन्काश्यपस्यैकपुत्रं
प्रवेश्य वेगेन विमुच्य नावम् ।
प्रलोभयन्त्यो विविधैरुपायै-
राजग्मुरङ्गाधिपतेः समीपम् ॥
संस्थाप्यतामाश्रमदर्शने तु
संतारितां नावमथातिशुभ्राम् ।
तीरादुपादाय तथैव चक्रे
राजाश्रमं नाम वनं विचित्रम् ॥
अन्तःपुरे तं तु निवेश्य राजा
विभाण्डकस्यात्मजमेकपुत्रम् ।
ददर्श मेघैः सहसा प्रवृष्ट-
मापूर्यणाणं च जगज्जलेन ॥
स रोमपाद परिपूर्णकामः
सुतां ददावृश्यशृङ्गाय शान्ताम् ।
क्रोधप्रतीकारकरं च चक्रे
गोभिश्च मार्गेष्वभिकर्षणं च ॥
विभाण्डकस्याव्रजतः स राजा
पशून्प्रभूतान्पशुपांश्च वीरान् ।
समादिशत्पुत्रगृद्धी महर्षि-
र्विभाण्डकः परिपृच्छेद्यदा वः ॥
स क्तव्यः प्राञ्जलिभिर्भवद्भिः
पुत्रस्य ते पशवः कर्षणं च ।
किं ते प्रियं वै क्रियतां महर्षे
दासाः स्म सर्वे तव वाचि बद्धाः ॥
अथोपायात्स मुनिश्चण्डकोपः
स्वमाश्रमं मूलफलं गृहीत्वा ।
अन्वेषमाणश्च न तत्र पुत्रं
ददर्श चुक्रोध ततो भृशं सः ॥
ततः स कोपेन विदीर्यमाण
आशङ्कमानो नृपतेर्विधानम् ।
जगाम चम्पां प्रतिधक्ष्यमाण-
स्तमङ्गराजं सपुरं सराष्ट्रम् ॥
स वै श्रान्तः क्षुधितः काश्यपस्ता-
न्घोषान्समासादितवान्समृद्धान् ।
गोपैश्च तैर्विधिवत्पूज्यमानो
राजेव तां रात्रिमुवास तत्र ॥
अवाप्य सत्कारमतीव हृष्टः
प्रोवाच कस्य प्रथिताः स्थ गोपाः ।
ऊचुस्ततस्तेऽभ्युपगम्य सर्वे
धनं तवेदं विहितं सुतस्य ॥
देशेषु देशेषु स पूज्यमान-
स्तांश्चैव शृण्वन्मधुरान्प्रलापान् ।
प्रशान्तभूयिष्ठरजाः प्रहृष्टः
समाससादाङ्गपतिं पुरस्थम् ॥
स पूजितस्तेन नरर्षभेण
ददर्श पुत्रं दिवि देवं यथेन्द्रम् ।
शान्तां स्नुषां चैव ददर्श तत्र
सौदामनीमुच्चरन्तीं यथैव ॥
ग्रामां श्च घोषांश्च सुतस्य दृष्ट्वा
शान्तां च शान्तोऽस्य परः स कोपः ।
चकार तस्यैव परं प्रसादं
विभाण्डको भूमिपतेर्नरेद्र ॥
स तत्रनिक्षिप्य सुतं महर्षि-
रुवाच सूर्याग्निसमप्रभावः ।
जाते च पुत्रे वनमेवाव्रजेथा
राज्ञः प्रियाण्यस्य सर्वाणि कृत्वा ॥
स तद्वचः कृतवानृश्यशृङ्गो
ययौ च यत्रास्य पिता बभूव ।
शान्ता चैनं पर्यचरन्नरेन्द्र
स्वे रोहिणी सोममिवानुकूला ॥
अरुन्धती वा सुभगा वसिष्ठं
लोपामुद्रा वा यथा ह्यगस्त्यम् ।
नलस्य वै दमयन्ती यथा भू
द्यथा शची वज्रधरस्य चैव ॥
नालायनी चेन्द्रसेना बभूव
वस्या नित्यं मुद्गलस्याजमीढ ।
`यथा सीता दाशरथेर्महात्मनो
यथा तव द्रौपदी पाण्डुपुत्र' ।
तथा शान्ता ऋश्यशृङ्गं वनस्थं
प्रीत्या युक्ता पर्यचरन्नरेन्द्र ॥
तस्याश्रमः पुण्य एषोऽवभाति
महाह्रदं शोभयन्पुण्यकीर्तिः ।
अत्रस्नातः कृतकृत्यो विशुद्ध-
स्तीर्थान्यन्यान्यनुसंयाहि राजन् ॥
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि चतुर्दशाधिकशततमोऽध्यायः ॥ 114 ॥
3-114-5 श्रमाय आश्रमाय ॥ 3-114-6 विधिना श्रावणेनेति झ.
पाठः । वेशयोषा वेश्या ॥ 3-114-9 आश्रमो यत्रस्थैर्दृश्यते तावतिदेशे
आश्रमदर्शने । नाव्याश्रमं नामेति झ. पाठः ॥ 3-114-11 गाश्चैव मार्गेषु च
कर्षणानीति झ. पाठः ॥