अध्यायः 032
दक्षिणदिग्विजये शूरसेनादीञ्जितवतः सहदेवस्य माहिष्मत्यां नीलेन सह युद्धम् ॥ 1 ॥ नोलस्य अग्निसाहाय्यकरणकारणकथनम् ॥ 2 ॥ सहदेवस्तुत्या तुष्टस्याग्नेराज्ञया नीलेनार्चितस्य सहदेवस्य विभीषणात्करग् रहणार्थं घटोत्कचप्रेषणम् ॥ 3 ॥
वैशम्पाय उवाच ॥
तथैव सहदेवोऽपि धर्मराजेन पूजितः ।
महत्या सेनया राजन्प्रययौ दक्षिणां दिशम् ॥
स शूरसेनान्कार्त्स्न्येन पूर्वमेवाजयत्प्रभुः ।
मत्स्यराजं च कौरव्यो वशे चक्रे बलाद्बली ॥
अधिराजाधिपं चैव दन्तवक्रं महाबलम् ।
जिगाय करदं चैव कृत्वा राज्ये न्यवेशयत् ॥
सुकुमारं वशे चक्रे सुमित्रं च नराधिपम् ।
तथैवापरमत्स्यांश्च व्यजयत्स पटच्चरान् ॥
निषादभूमिं गोशृङ्गं पर्वतप्रवरं तथा ।
तरसैवाजयद्धीमाञ्श्रेणिमन्तं च पार्थिवम् ॥
नरराष्ट्रं च निर्जित्य कुन्तिभोजमुपाद्रवत् ।
प्रीतिपूर्वं च तस्यासौ प्रतिजग्राह शासनम् ॥
ततश्चर्मण्वतीकूले जम्भकस्यात्मजं नृपम् ।
ददर्श वासुदेवेन शेषितं पूर्ववैरिणा ॥
चक्रे तेन स सङ्ग्रामं सहदेवेन भारत ।
स तमाजौ विनिर्जित्य दक्षिणाभिमुखो ययौ ॥
सेकानपरसेकांश्च रत्नानि विविधानि च ॥
ततस्तेनैव सहितो नर्मदामभितो ययौ । 2-32-10a`भगदत्तं महाबाहुं
क्षत्रियं नरकात्मजम् ।
अर्जुनाय करं दत्तं श्रुत्वा तत्र न्यवर्तत' ॥
विन्दानुविन्दावावन्त्यौ सैन्येन महतावृतौ ।
जिगाय समरे वीरावाश्विनेयः प्रतापवान् ॥
ततो रत्नान्युपादाय पुरं भोजकटं ययौ ।
तत्र युद्धमभूद्राजन्दिवसद्वयमच्युत ॥
स विजित्य दुराधर्षं भीष्मकं माद्रिनन्दनः ।
कोसलाधिपतिं चैव तथा वेणातटाधिपम् ॥
कान्तारकांश्च समर तथा प्राकोटकान्नृपान् ।
नाटकेयांश्च समरे तथा हेरम्बकान्युधि ॥
मारुधं च विनिर्जित्य रम्यग्राममथो बलात् ।
नाचीनानर्बुकांश्चैव राजानश्च महाबलः ॥
तांस्तानाटविकान्सर्वानजयत्पाण्डुनन्दनः ।
नाताधिपं च नृपतिं वशे चक्रे महाबलः ॥
पुलिन्दांश्च रणे जित्वा ययौ दक्षिणतः पुरः ।
युयुधे पाण्ड्यराजेन दिवसं नकुलानुजः ॥
तं जित्वा स महाबाहुः प्रययौ दक्षिणापथम् ।
गुहामासादयामास किष्किन्धां लोकविश्रुताम् ॥
`पुरा वानरराजेन वालिना चाभिरक्षिताम् ।
ततः कोसलराजस्य रामस्यैवानुगेन च ।
सुग्रीवेणाभिगुप्तां तां प्रविष्टस्तमथाह्वयत्' ॥
तत्र वानरराजाभ्यां मैन्देन द्विविदेन च ।
युयुधे दिवसान्सप्त न च तौ विकृतिं गतौ ॥
ततस्तुष्टौ महात्मानौ सहदेवाय वानरौ ।
ऊचतुश्चैव संहृष्टौ प्रीतिपूर्वमिदं वचः ॥
गच्छ पाण्डवशार्दूल रत्नान्यादाय सर्वशः ।
अविघ्नमस्त कार्याय धर्मराजाय धीमते ॥
ततो रत्नान्युपादाय पुरीं माहिष्मतीं ययौ ॥
तत्र नीलेन राज्ञा स चक्रे युद्धं नरर्षभः ॥
पाण्डवः परवीरघ्नः सहदेवः प्रतापवान् ॥
ततोऽस्य सुमहद्युद्धमासीद्भीरुभयङ्करम् ॥
सैन्यक्षयकरं चैव प्राणानां संशयावहम् ।
चक्रे तस्य हि साहाय्यं भगवान्हव्यवाहनः ॥
ततो रथा हया नागाः पुरुषाः कवचानि च ।
प्रतीप्तानि व्यदृश्यन्त सहदेवबले तदा ॥
ततः सुसंभ्रान्तमना बभूव कुरुनन्दनः ।
नोत्तरं प्रतिवक्तुं च शक्तोऽभूज्जनमेजय ॥
जनमेजय उवाच ।
किमर्थं भगवान्वह्निः प्रत्यमित्रोऽभवद्युधि ।
सहदेवस्य यज्ञार्थं घटमानस्य वै द्विज ॥
वैशम्पायन उवाच ।
तत्र माहिष्मतीवासी भगवान्हव्यवाहनः ।
श्रूयते हि गृहीतो वै पुरस्तात्पारदारिकः ॥
नीलस्य राज्ञो दुहिता बभूवतातीव शोभना ।
साऽग्निहोत्रमुपातिष्ठद्बोधनाय पितुः सदा ॥
व्यजनैर्धूयमानोऽपि तावत्प्रज्वलते न सः ॥
यावच्चारुपुटौष्ठेन वायुना न विधूयते ॥
ततः स भगवानग्निश्चकमे तां सुदर्शनाम् ।
नीलस्य राज्ञः सर्वेषामुपनीतश्च सोऽभवत् ॥
ततो ब्रह्मणरूपेण रममाणो यदृच्छया ॥
चकमे तां वरारोहां कन्यामुत्पललोचनाम् ॥
तं तु राजा यथाशास्त्रमशासद्धार्मिकस्तदा ॥
प्रजज्वाल ततः कोपाद्भगवान्हव्यवाहनः ।
तं दृष्ट्वा विस्मितो राजा जगाम शिरसाऽवनिम् ॥
ततः कालेन तां कन्यां तथैव हि तदा नृपः ।
प्रददौ विप्ररूपाय वह्रये शिरसा नतः ॥
प्रतिगृह्य च तां सुभ्रुं नीलराज्ञः सुतां तदा ।
चक्रे प्रसादं भगवांस्तस्य राज्ञो विभावसुः ॥
वरेण च्छन्दयामास तं नृपं स्विष्टकृत्तमः ।
अभयं च स जग्राह स्वसैन्ये वै महीपतिः ॥
ततः प्रभृति ये केचिदज्ञानात्तां पुरीं नृपाः ।
जिगीषन्ति बलाद्राजंस्ते दह्यन्ते स्म वह्निना ॥
तस्यां पुर्यां तदा चैव माहिष्मत्यां कुरूद्वह ।
बभूवुरनतिग्राह्य योषितश्छन्दतः किल ॥
एवमग्निर्वरं प्रादात्स्त्रीणामप्रतिवारणे ।
स्वैरिण्यस्तत्र च राजानस्तत्पुरं भरतर्षभ ।
वर्जयन्ति च राजानस्तत्पुरं भरतर्षभ ।
भयादग्नेर्महाराज तदाप्रभृति सर्वदा ॥
सहदेवस्तु धर्मात्मा सैन्यं दृष्ट्वा भयार्दितम् ।
परीतमग्निना राजन्नाकम्पत यथाऽचलः ।
उपस्पृश्य शुचिर्भूत्वा सोऽब्रवीत्पावकं ततः ॥
सहदेव उवाच ।
त्वदर्थोऽयं समारम्भः कृष्णवर्त्मन्नमोस्तु ते ।
मुखं त्वमसि देवानां यज्ञस्त्वमसि पावक ॥
पावनात्पावकश्चासि वहनाद्धव्यवाहनः ।
वेदास्त्वदर्थं जाता वै जातवेदास्ततो ह्यसि ॥
चित्रभानुः सुरेशश्च अनलस्त्वं विभावसो ।
स्वर्गद्वारस्पृशश्चासि हुताशो ज्वलनः शिखी ॥
वैश्वानरस्त्वं पिङ्गेशः प्लवङ्गो भूरितेजसः ।
कुमारसूस्त्वं भगवान्रुद्रगर्भो हिरण्यकृत् ॥
अग्निर्ददातु मे तेजो वायुः प्राणं ददातु मे ।
पृथिवी बलमादध्याच्छिवं चापो दिशन्तु मे ॥
अपां गर्भ महासत्व जातवेदः सुरेश्वर ।
देवानां मुखमग्ने त्वं सत्येन विपुनीहि माम् ॥
ऋषिभिर्ब्राह्मणैश्चैव दैवतैरसुरैरपि ।
नित्यं सुहुत यज्ञेषु सत्येन विपुनीहि माम् ॥
धूमकेतुः शिखी च त्वं पापहाऽनिसम्भवः ।
सर्वप्राणिषु नित्यस्थः सत्येन विपुनीहि माम् ॥
एवं स्तुतोऽसि भगवन्प्रीतेन शिचिना मया ।
तुष्टिं पुष्टिं श्रुतं चैव प्रीति चाग्ने प्रयच्छ मे ॥
वैशम्पायन उवाच ।
इत्येवं मन्त्रमाग्नेयं पठन्यो जुहुयाद्विभुम् ।
ऋद्धिमान्सततं दान्तः सर्वपापैः प्रमुच्यते ॥
सहदेव उवाच ।
यज्ञविघ्नमिमं कर्तुं नार्हस्त्वं यज्ञवाहन ।
एवमुक्त्वा तु माद्रेयः कुशैरास्तीर्य मेदिनीम् ॥
विधिवत्पुरुषव्याघ्रः पावकं प्रत्युपाविशत् ।
प्रमुखे तस्य सैन्यस्य भीतोद्विग्रस्य भारत ॥
न चैनमत्यगाद्वह्निरुवाच महोदधिः ।
तमुपेत्य शनैर्वह्निरुवाच कुरुनन्दनम् ॥
सहदेवं नृणां देवं सान्त्वपूर्वमिदं वचः ।
उत्तिष्ठोत्तिष्ठ कौरव्य जिज्ञासेयं कृता मया ॥
वेद्मि सर्वमभिप्रायं तव धर्मसुतस्य च ।
मया तु रक्षितव्या पूरियं भरतसत्तम ॥
यावद्राज्ञो हि नीलस्य कुले वंशधरा इति ।
ईप्सितं तु करिष्यामि मनसस्तव पाण्डव ॥
तत उत्थाय हृष्टात्मा प्राञ्जलिः शिरसा नतः ।
पूजयामास माद्रेयटः पावकं भरतर्षभ ॥
पावके विनिवृत्ते तु नीलो राजाऽभ्यगात्तदा ।
पावकस्याज्ञया चैनमर्चयामास पार्थिवः ॥
सत्कारेण नरव्याघ्रं सहदेवं युधां पतिम् ।
प्रतिगृह्य च तां पूजां करे च विनिवेश्य च ॥
माद्रीसुतस्ततः प्रायाद्विजयी दक्षिणां दिशम् ।
त्रैपुरं स वशे कृत्वा राजानममितौजसम् ॥
निजग्राह महाबाहुस्तरसा पौरवेश्वरम् ।
आकृतिं कौशिकाचार्यं यत्ने महता ततः ॥
वशे चक्रे महाबाहुः सुराष्ट्राधिपतिं तदा ।
सुराष्ट्रविषयस्थश्च प्रेषयामास रुक्मिणे ॥
राज्ञे भोजकटस्थाय महामात्राय धीमते ।
भीष्मकायस धर्मात्मा साक्षादिन्द्रसखाय वै ॥
च चास्य प्रतिजग्राह ससुतः शासनं तदा ।
प्रीतिपूर्वं महाराज वासुदेवमवेक्ष्य च ॥
ततः स रत्नान्यादाय पुनः प्रायाद्युधां पतिः ।
ततः शूर्पारकं चैव तालाकटमथापि च ॥
वशे चक्रे महातेजा दण्डकांश्च महाबलः ।
सागरद्वीपवासांश्च नृपतीन्म्लेच्छयोनिजान् ॥
निषादान्पुरुषादांश्च कर्णप्रावरणानपि ।
ये च कालमुखा नाम नरराक्षसयोनयः ॥
कृत्स्नं कोलगिरिं चैव सुरभीपट्टनं तथा ।
द्वीपं ताम्राह्वयं चैव पर्वतं रामकं तथा ॥
तिमिङ्गिलं च स नृपं वशे कृत्वा महामतिः ।
एकपादांश्च पुरुषान्केरलान्वनवासिनः ॥
नगरीं सञ्जयन्तीं च पाषण्डं करहाटकम् ।
दूतैरेव वशे चक्रे करं चैनानदापयत् ॥
पाण्ड्यांश्च द्रविडांश्चैव सहितांश्चोड्रकेरलैः ।
अन्ध्रांस्तावनांश्चैव कलिङ्गानुष्ट्रकर्णिकान् ॥
आटवीं च पुरीं रम्यां यवनानां पुरं तथा ।
दूतैरेव वशे चक्रे करं चैनानदापयत् ॥
`तात्रपर्णी ततो गत्वा कन्यातीर्थमतीत्य च ।
दक्षिणां च दिशं सर्वा विजित्य कुरुनन्दनः ॥
उत्तरं तीरमासाद्य सागरस्योर्मिमालिनः ।
चिन्तयामास कौन्तेयो भ्रातुः पुत्रं घटोत्कचम् ॥
ततश्चिन्तितमात्रस्तु राक्षसः प्रत्यदृश्यत ।
तं मेरुशिखराकारमागतं पाण्डुनन्दनः ॥
भृगुकच्छात्ततो धीमान्साम्नैवामित्रकर्शनः ।
आगम्यतामिति प्राह धर्मराजस्य शसनाः ॥
स राक्षसपरीवारस्तं प्रणम्याशु संस्थितः ।
घटोत्कचं महात्मानं राक्षसं घोरदर्शनम् ॥
तत्रस्थः प्रेषयामास पौलस्त्याय महात्मने' ।
बिभीषणाय धर्मात्मा प्रीतिपूर्वमरिन्दमः ॥
स चास्य प्रतिजग्राह शासनं प्रीतिपूर्वकम् ।
तच्च कृष्णकृतं धीमानभ्यमन्यत स प्रभुः ॥
ततः सम्प्रेषयामास रत्नानि विविधानि च ।
चन्दनागुरुकाष्ठानि दिव्यान्याभरणानि च ॥
वासांसि च महार्हाणि मणींश्चैव महाधनान् ॥ ॥
इति श्रीमन्महाभारते सभापर्वणि दिग्विजयपर्वणि द्वात्रिंशोऽध्यायः ॥ 32 ॥