अध्यायः 062
दमयन्त्या सार्थेन सह चेदिराजपुरंप्रति प्रस्तानम् ॥ 1 ॥
वनमध्ये सरस्तीरशायिनि सार्थे निशीथे पानीयपानायागतगजयूथनिहतभूयिष्ठे दिष्टया
दमयन्त्या अपि शेषीकारः ॥ 2 ॥ हतावशिष्टेन जनेन सह चेदिराजपुरं गताया
दमयन्त्या राजमात्रा स्वान्तःपुराधिवासनम् ॥ 3 ॥
सा तच्छ्रुत्वाऽनवद्याङ्गी सार्थवाहवचस्तदा ।
जगाम सह तेनैव सार्थेन पतिलालसा ॥
अथ काले बहुतिथे वने महति दारुणे ।
तटाकं सर्वतोभद्रं पद्मसौगन्धिकायुतम् ॥
ददृशुर्वणिजो रम्यं प्रभूतयवसेन्धनम् ।
बहुमूलफलोपेतं नानापक्षिनिषेवितम् ॥
तं दृष्ट्वा मृष्टसलिलं मनोहारि सुशीतलम् ।
सुपरिश्रान्तवाहास्ते निवेशाय मनो दधुः ॥
संमते सार्थवाहस्य विविशुर्वनमुत्तमम् ।
उवास सार्थः सुमहान्निशामासाद्य पद्मिनीम् ॥
अथार्धरात्रसमये निःशब्दे तिमिरे तदा ।
सुप्ते सार्थे परिश्रान्ते हस्तियूथमुपागमत् ।
पानीयार्थं गिरितटान्मदप्रस्रवणाविलम् ॥
[अथापश्यत सार्थं तं सार्थजान्सुबहून्गजान् ॥
ते तान्ग्राम्यगजान्दृष्ट्वा सर्वे वनगजास्तदा ।
समाद्रवन्त वेगेन जिघांसन्तो मदोत्कटाः ॥
तेषामापततां वेगः करिणां दुःसहोऽभवत् ।
नगाग्रादिव शीर्णानां शृङ्गाणां पततां क्षितौ ।
स्पन्दतामपि नागानां मार्गा नष्टा वनोद्भवाः ॥]
मार्गं संरुद्ध्य संसुप्तं पद्मिन्याः सार्थमुत्तमम् ।
ते तं ममर्दुः सहसा वेष्टमानं महीतले ॥
महारवं प्रमुञ्चतो वद्ध्यन्ते शरणार्थिनः ।
वनगुल्मांश्च धावन्तो निद्रया महतो भयात् ॥
केचिद्दन्तैः करैः केचित्केचित्पद्भ्यां हता गजैः ॥
निहतोष्ट्राश्वबहुलाः पदातिजसंकुलाः ।
भयादाधावमानाश् परस्परहतास्तदा ॥
घोरान्नादान्विमुञ्चन्तो निपेतुर्धरणीतले ।
वृक्षेष्वासज्यसंभग्नाः पतिता विषमेषु च ॥
एवंप्रकारैर्बहुभिर्दैवेनाक्रम्य हस्तिभिः ।
राजन्विनिहतं सर्वं समृद्धं सार्थमण्डलम् ॥
आरावः सुमहांश्चासीत्रैलोक्यभयकारकः ।
एषोऽग्निरुत्थितः कष्टस्त्रायध्वं धावताऽधुना ॥
रत्नराशिर्विशीर्णोऽयं गृह्णीध्वं किं प्रधावत ।
सामान्यमेतद्द्रविणं न मिथ्या वचनं मम ॥
पुनरेवाभिधास्यामि चिन्तयध्वं सुकातराः ।
एवमेवाभिभाषन्तो विद्रवन्ति भयात्तदा ॥
तस्मिंस्तथा वर्तमाने दारुणे जनसंक्षये ।
दमयन्ती च बुबुधे भयसंत्रस्तमानसा ।
अपश्यद्वैशसं तत्र सर्वलोकभयंकरम् ॥
अदृष्टपूर्वं तद्दृष्ट्वा बाला पद्मनिभेक्षणा ।
संसक्तवदनाश्वासा उत्तस्थौ भयविह्वला ॥
ये तु तत्र विनिर्मुक्ताः सार्थात्केचिदविक्षताः ।
तेऽब्रुवन्सहिताः सर्वे कस्येदं कर्मणः फलम् ॥
नूनं न पूजितोऽस्माभिर्मणिभद्रो महायशाः ।
तथा यक्षाधिपः श्रीमान्न वै वैश्रवणः प्रभुः ॥
न पूजा विघ्रकर्तॄणामथवा प्रथमं कृता ॥
शकुनानां फलं वाऽथ विपरीतिमिदं ध्रुवम् ।
ग्रहा न विपरीतास्तु किमन्यदिदमागतम् ॥
अपरे त्वब्रुवन्दीना ज्ञातिद्रव्यविनाकृता ।
याऽसावद्य महासार्थे नारी ह्युन्मत्तदर्शना ॥
प्रविष्टा विकृताकारा कृत्वा रूपममानुषम् ।
तयैवं विहिता पूर्वं माया परमदारुणा ॥
राक्षसी वा ध्रुवं यक्षी पिशाची वा भयंकरी ।
तस्याः सर्वमिदं पापं नात्र कार्या विचारणा ॥
यदि पश्याम तां पापां सार्थघ्नीं नैकदुःखदाम् ।
लोष्टभिः पांसुभिश्चैव तृणैः काष्ठैश्च मुष्टिभिः ।
अवश्यमेव हन्यामः सार्थस्य किल कृत्यकाम् ॥
दमयन्ती तु तच्छ्रुत्वा वाक्यं तेषां सुदारुणम् ।
ह्रीता भीता च संविग्रा प्राद्रवद्यत्र काननम् ॥
आशङ्कमाना तत्पापमात्मानं पर्यदेवयत् ॥
अहो ममोपरि विधेः संरम्भो दारुणो महान् ।
नानुबध्नाति कुशलं कस्येदं कर्मणः फलम् ॥
न स्मराम्यशुभं किंचित्कृतं कस्यचिदण्वपि ।
कर्मणा मनसा वाचा कस्येदं कर्मणः फलम् ॥
नूनं जन्मान्तरकृतं पापां माऽऽपतितं महत् ।
अपश्चिमामिमां कष्टामापदं प्राप्तवत्यहम् ॥
भर्तृराज्यापहरणं स्वजनाच्च रपराजयः ।
भर्त्रा सह वियोगश्च तनयाभ्यां च विच्युतिः ।
निर्नाथता वने वासो बहुव्यालनिषेविते ॥
अथापरेद्युः संप्राप्ते हतशिष्टा जनास्तदा ।
वनगुल्माद्विनिष्क्रम्य शोचन्ते वैशसं कृतम् ।
भ्रातरं पितरं पुत्रं सखायं च नराधिप ॥
`हन्यमाने तदा सार्थे दमयन्ती शुचिस्मिता ।
ब्राह्मणैः सहिता तत्रवने तु न विनाशिता ॥'
अशोचत्तत्र वैदर्भी किंनु मे दुष्कतं कृतम् ।
योपि मे निर्जनेऽरण्ये संप्राप्तोऽयं जनार्णवः ॥
स हतो हस्तियूथेन मन्दभाग्यान्ममैव तत् ।
प्राप्तव्यं सुचिरं दुःखं नूनमद्यापि वै मया ॥
नाप्राप्तकालो म्रियते श्रुतं वृद्धानुशासनम् ।
या नाहमद्य मृदिता हस्तियूथेन दुःखिता ॥
न ह्यदैवकृतंकिंचिन्नराणामिह विद्यते ।
न च मे बालभावेऽपि किंचित्पापकृतं कृतम् ॥
कर्मणा मनसा वाचा यदिदं दुःखमागतम् ।
मन्ये स्वयंवरकृतेलोकपाला समागताः ॥
प्रत्याख्याता मया तत्र नलस्यार्थाय देवताः ।
नूनं तेषां प्रभावेन वियोगं प्राप्तवत्यहम् ॥
एवमादीनि दुःखार्ता सा विलप्य वराङ्गना ।
प्रलापानि तदा तानि दमयन्ती पतिव्रता ॥
हतशेषैः सह तदा ब्राह्मणैर्वेदपारगैः ।
अगच्छद्राजशार्दूल दुःखशोकपरायणा ॥
गच्छन्ती सा चिराद्बाला पुरमासादयन्महत् ।
सायाह्नि चेदिराजस् सुबाहोः सत्यवादिनः ॥
`सा तु तच्चारुसर्वाङ्गी सुबाहोस्तुङ्गगोपुरम् ।'
वस्त्रार्धेन च संवीता प्रविवेश पुरोत्तमम् ॥
तां विह्वलां कृशां दीनां मुक्तकेशीममार्जिताम् ।
उन्मत्तामिव गच्छन्तीं ददृशुः पुरवासिनः ॥
प्रविशन्तीं तु तां दृष्ट्वा चेदिराजपुरीं तदा ।
अनुजग्मुस्तत्र बाला ग्रामिपुत्राः कुतूहलात् ॥
सा तैः परिवृताऽगच्छत्समीपं राजवेश्मनः ।
तां प्रासादगताऽपश्यद्राजमाता जनैर्वृताम् ॥
धात्रीमुवाच च्छैनामानयेह ममान्तिकम् ।
जनेन क्लिश्यते बाला दुःखिता शरणार्थिनी ॥
तादृग्रूपं च पश्यामि विद्योतयति मे गृहम् ।
उन्मत्तवेषा कल्याणी श्रीरिवायतलोचना ॥
सा जनं वारयित्वा तं प्रासादतलमुत्तमम् ।
आरोप्य विस्मिता राजन्दमयन्तीमपृच्छत ॥
एवमप्यसुखाविष्टा बिभर्षि परमं वपुः ।
भासि विद्युदिवाभ्रेषु शंस मे काऽसिकस्य वा ॥
न हि ते मानुषं रूपं भूषणैरपि वर्जितम् ।
असहाया नरेभ्यश्च नोद्विजस्यमरप्रभे ॥
तच्छ्रुत्वा वचनं तस्या भैमी वचनमब्रवीत् ।
मानुषीं मां विजानीहि भर्तारं समनुव्रताम् ॥
सैरन्ध्रीं जातिसंपन्नां भुजिष्यां कामवासिनीम् ।
फलमूलाशनामेकां यत्रसायंप्रतिश्रयाम् ॥
असङ्ख्येयगुणो भर्ता मां च नित्यमनुव्रतः ।
भक्ताऽहमपि तं वीरं छायेवानुगता पथि ॥
तस्य दैवात्प्रसङ्गोऽभूदतिमात्रं सुदेवने ।
द्यूते स निर्जितश्चैव वनमेक उपेयिवान् ॥
तमेकवसनच्छन्नमुन्म्तमिव विह्वलम् ।
आश्वासयन्ती भर्तारमहमप्यगमं वनम् ॥
स कदाचिद्वने वीरः कस्मिंश्चित्कारणान्तरे ।
क्षुत्परीतस्तु विमना वासश्चैकं व्यसर्जयत् ॥
तमेकवसना नग्नमुन्मत्तवदचेतसम् ।
अनुव्रजन्ती बहुला न स्वपामि निशाः सदा ॥
ततो बहुतिथे काले सुप्तामुत्सृज्य मां क्वचित् ।
वाससोऽर्धं परिच्छिद्य त्यक्तवान्मामनागसम् ॥
तं मार्गमाणा भर्तारं दह्यमाना दिवानिशम् ।
न विन्दाम्यमरप्रख्यं प्रियं प्राणेश्वरं प्रभुम् ॥
`इत्युक्त्वा साऽनवद्याङ्गी राजमातरमप्युत ।
स्थिताऽश्रुपरिपूर्णाक्षी वेपमाना सुदुःखिता' ॥
तामश्रुपरिपूर्णाक्षीं विलपन्तीं तथा बहु ।
राजमाताऽब्रवीदार्ता भैमीमार्तस्वरां स्वयम् ॥
वस त्वमिह कल्याणि प्रीतिर्मे परमा त्वयि ।
मृगयिष्यन्ति ते भद्रे भर्तारं पुरुषा मम ॥
अपि वा स्वयमागच्छेत्परिधावन्नितस्ततः ।
इहैव वसती भद्रे भर्तारमुपलप्स्यसे ॥
राजमातुर्वचः श्रुत्वा दमयन्ती वचोऽब्रवीत् ।
समयेनोत्सहे वस्तुं त्वि वीरप्रजायिनि ॥
उच्छिष्टं नैव भुञ्जीयां न कुर्यां पादधावनम् ।
न चाहं पुरुषानन्यान्प्रभाषेयं कथंचन ॥
प्रार्थयेद्यदि मां कश्चिद्दण्ड्यस्ते स पुमान्भवेत् ।
वध्यश्च ते सकृन्मन्द इतिमे व्रतमाहितम् ॥
भर्तुरन्वेषणार्थं तु पश्येयं ब्राह्मणानहम् ।
यद्येवमिह वत्स्यामि त्वत्सकाशे न संशयः ।
अतोऽन्यथा न मे वासो वर्तते हृदये क्वचित् ॥
इत्युक्ता दमयन्त्या तु राजमातेदमब्रवीत् ।
सर्वमेतत्करिष्यामि दिष्ट्या ते व्रतमीदृशम् ॥
एवमुक्त्वा ततो भैमीं राजमाता विशांपते ।
उवाचेदं दुहितरं सुनन्दां नाम भारत ॥
सैरन्ध्रीमभिजानीष्व सुनन्दे देवरूपिणीम् ।
वयसा तुल्यतां प्राप्ता सखी तव भवत्वियम् ।
एतया सह मोदस्व निरुद्विग्रमना सदा ॥
ततः परमसंहृष्टा सुनन्दा गृहणागमत् ।
दमयन्तीमुपादाय सखीभिः परिवारिता ॥
सहसा न्यवसद्राजन्राजपुत्र्या सुनन्दया ।
चिन्तयन्ती नलं वीरमनिशं वामलोचना ॥
इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि द्विषष्टितमोऽध्यायः ॥ 62 ॥
3-62-3 यवसं घासः ॥ 3-62-4 श्रान्तवाहाः श्रान्तवाहनाः ।
निवेशाय वासाय ॥ 3-62-10 पद्मिन्याः सरस्याः ॥ 3-62-28 कृत्यैव कृत्यका ।
कुत्सिता कृत्या कृत्यकेति वा ताम् ॥ 3-62-33 अपश्चिमां अपरावर्तिनीम् ॥ 3-62-40 पापकृतंपापं कर्म ॥ 3-62-47 अमार्जितां धूसरवेणीम् ॥ 3-62-56
भूजिष्यां दासीं । कामवासिनीं यत्रकाम इच्छा तत्रैव वसन्तीम् । यत्र
सायंकालस्तत्रैव प्रतिश्रयो गृहं यस्यास्ताम् ॥ 3-62-57 भर्तारमपि तं वीरं
सीतेवानुगता सदेति क. पाठः । अहं चानुगता वीरं छायेवानपगा सदेति ध. पाठः ॥ 3-62-68 हेवीरप्रजायिनि वीरानेव प्रजायते सूते सा वीरप्रजायीनी ॥ 3-62-71
यद्येवमिह वस्तव्यं वसाम्यहमसंशयमिति ध. पाठः ॥