अध्यायः 092

लोमशेन युधिष्ठिरंप्रति धर्माधर्मयोः समृद्धसमृद्धिलक्षणोदर्ककारणत्वाभिधानम् ॥ 1 ॥

युधिष्ठिर उवाच ।
न वै निर्गुणमात्मानं मन्ये देवर्षिसत्तम ।
तथाऽस्मि दुःखसंतप्तो यथा नान्यो महीपतिः ॥
परांश्च निर्गुणान्मन्ये न च ध्रमगतानपि ।
ते च लोमश लोकेऽस्मिन्नृध्यन्ते के न हेतुना ॥
लोमश उवाच ।
नात्र दुःखं त्वया राजन्कार्यं पार्थ कथंचन ।
यदधर्मेण वर्धेयुरधर्मरुचयो जनाः ॥
वर्धत्यधर्मेण नरस्ततो भद्राणि पश्यति ।
ततः सपत्नाञ्जयति समूलस्तु विनश्यति ॥
`यत्र धर्मेण वर्धन्ते राजानो राजसत्तम ।
सर्वान्सपत्नान्वाधन्ते राज्यं चैषां विवर्धते' ॥
मया हि दृष्टा दैतेया दानवाश्च महीपते ।
वर्धमाना ह्यधर्मेण क्षयं चोपगताः पुनः ॥
पुरा देवयुगे चैव दृष्टं सर्वं मया विभो ।
अरोचयन्सुरा धर्मं धर्मं तत्यजिरेऽसुराः ॥
तीर्तानि देवा विविशुर्नाविशन्भारतासुराः ।
तानधर्मकृतो दर्पः पूर्वमेव समाविशत् ॥
दर्पान्मानः समभवन्मानात्क्रोधो व्यजायत ।
क्रोधादहीस्ततोऽलञ्जा वृत्तं तेषां ततोऽनशत् ॥
तानलज्जान्गतश्रीकान्हीनवृत्तान्वृथाव्रतान् ।
क्षमा लक्ष्मीः स्वधर्मश्च नचिरात्प्रजहुस्ततः ॥
लक्ष्मीस्तु देवानगमदलक्ष्मीरसुरान्नृप ॥
तानलक्ष्मीसमाविष्टान्दर्पोपहतचेतसः ।
दैतेयान्दानवांश्चैव कलिरप्याविशत्ततः ॥
तानलक्ष्मीसमाविष्टान्दानवान्कलिनाहतान् ।
दर्पाभिभूतान्कौन्तेय क्रियाहीनानचेतसः ॥
मानाभिभूतानचिराद्विनाशः समपद्यत ॥
निर्यशस्कास्तथा दैत्याः कृत्स्नशो विलयं गताः ।
`अधर्मरुचयोराजन्नलक्ष्म्या समधिष्ठिताः' ॥
देवास्तु सागरांश्चैव सरितश्च सरांसि च ।
अभ्यगच्छन्धर्मशीलाः पुण्यान्यावतनानि च ॥
तपोभिः क्रतुभिर्दानैराशीर्वादैश्च पाण्डव ।
प्रजहुः सर्वपापानि श्रेयश्च प्रतिपेदिरे ॥
एवमादानवन्तश् निरादानाश्च सर्वशः ।
तीर्थान्यगच्छन्विबुधास्तेनापुर्भूतिमुत्तमाम् ॥
तथा त्वमपि राजेन्द्र स्नात्वा तीर्थेषु सानुजः ।
पुनर्वेत्स्वसि तां लक्ष्मीमेष पन्थाः सनातनः ॥
यथैव हि नृगो राजा शिविरौशीनरो यथा ।
भगीरयो वसुमना गयः पूरुः पुरूरवाः ॥
चरमाणास्तपो नित्यंस्पर्शनादम्भसश्च ते ।
तीर्थामिगमनात्पूता दर्शनाच्च महात्मनाम् ॥
अलभन्त यशः पुण्यं धनानि च विशांपते ।
तथा त्वमपि राजेन्द्र लब्ध्वा सुविपुलां श्रियम् ॥
यथा चेक्ष्वाकुरभवत्सपुत्रजनबान्धवः ।
मुचुकुन्दोऽथ मांधाता मरुत्तश्च महीपतिः ॥
कीर्तिं पुण्यामविन्दन्त यथा देवास्तपोबलात् ।
देवर्षयश्च कार्त्स्न्येन तथा त्वमपि वेत्स्यसि ॥
धार्तराष्ट्रास्त्वधर्मेण मोहिन च वशीकृताः । नचिराद्वै विनङ्क्ष्यन्ति दैत्या इव न संशयः ॥

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि द्विनवतितमोऽध्यायः ॥ 92 ॥

3-92-2 परान् शत्रून् ॥ 3-92-8 विविशुः स्नानार्थमिति शेषः ॥ 3-92-9 अह्नीः अकार्ये प्रवृत्तिः । ततः अलज्जा लज्जा निन्द्यतादोषाद्भयं तस्य नाशः । 3-92-10 नचिरात् शीघ्रमेव ॥ 3-92-17 आदानवन्तः आर्जवादिनियमग्रहणवन्तः । निरादानाः अप्रतिबद्धाः । सर्वशः देवादिभिरपि । एवं हि दानवन्तश्च क्रियावन्तश्च सर्वशः इति ध. पाठः ॥ 3-92-18 वेत्स्यसिलप्स्यसे ॥ 3-92-24 धार्तराष्ट्रस्तु दर्पेण इति क. ध. पाठः ॥