अध्यायः 098

युधिष्ठिरेण भृगुतीर्थगमनम् ॥ 1 ॥ लोमशेन युधिष्ठिरंप्रति परशुरामस्य दाशरथिरामेण तेजोहरणप्रकारकथनम् ॥ 2 ॥ तथापरशुरामस्य पितृनिदेशाद्भृगुतीर्थनिमज्जनेन पुनस्तेजोलाभकथनम् ॥ 3 ॥

[लोमश उवाच ।
युधिष्ठिर निबोधेदं त्रिषु लोकेषु विश्रुतम् ।
भृगोस्तीर्थं महाराज महर्षिगणसेवितम् ॥
यत्रोपस्पृष्टवान्रामो हृतंतेजस्तदाप्तवान् ।
अत्र त्वंभ्रातृभिः सार्धं कृष्णया चैव पाण्डव ॥
दुर्योधनहृतंतेजः पुनरादातुमर्हसि ।
कृतवैरेण रामेण यथा कचोपहृतं पुनः ॥
वैशंपायन उवाच ।
स तत्रभ्रातृभिश्चैव कृष्णया चैव पाण्डवः ।
स्नात्वा देवान्पितॄंश्चैव तर्पयामास भारत ॥
तस्य तीर्थस्य रूपं वै दीप्ताद्दीप्ततरं बभौ ।
अप्रवृष्यतरश्चासीच्छात्रवाणां नरर्षभ ॥
अपृच्छच्चैव राजेन्द्र लोमशं पाण्डुनन्दनः । भगवन्किमर्थं रामस्य हृतमासीद्वपुः प्रभो ।
कथं प्रत्याहृतंचैव एतदाचक्ष्व पृच्छतः ॥
लोमश उवाच ।
शृणु रामस्य राजेन्द्र भार्गवस्य च धीमतः ।
जातो दशरथस्यासीत्पुत्रो रामो महात्मनः ॥
विष्णुः स्वेन शरीरेण रावणस्य वधाय वै ।
पश्यामस्तमयोध्यायां जातं दाशरथिं ततः ॥
ऋचीकनन्दनो राभो भार्गवो रेणुकासुतः ।
तस् दाशरथेः श्रुत्वा ररामस्याक्लिष्टकर्मणः ॥
कौतूहलान्वितो रामस्त्वयोध्यामगमत्पुनः ।
जिज्ञासमानो रामस्य वीर्यं दाशरथेस्तदा ॥
तं वै दशरथः श्रुत्वा वियान्तमुपागतम् ।
प्रेषयामास रामस्य रामं पुत्रं पुरस्कृतम् ॥
स तमभ्यागतं दृष्ट्वा उद्यतास्त्रमवस्थितम् ।
प्रहसन्निव कोन्तेय रामो वचनमब्रवीत् ॥
कृतकालं हि राजेन्द्र धनुरेतन्मया विभो ।
समारोपय यत्नेन यदि शक्नोषि पार्तिव ॥
इत्युक्तस्त्वाह भगवंस्त्वं नाधिक्षेप्तुमर्हसि । नाहमप्यधमो धर्मे क्षत्रियाणां द्विजातिषु ।
इश्र्वाकूणां विशेषेण बाहुवीर्ये न कत्थनम् ॥
तमेवं वादिनं तत्र रामो वचनमब्रवीत् ।
अलं वै व्यपदेशेन धनुरायच्छ राघव ॥
ततो जग्राह रोषेण क्षत्रियर्षभमूदनम् ।
रामो दाशरथिर्दिव्यं हस्ताद्रामस्य कार्मुकम् ॥
धनुरारोपयामास सलील इव भारत । ज्याशब्दमकरोच्चैव स्मयमानः स वीर्यवान् ।
तस्य शब्दस् भूतानि वित्रसन्त्यशनेरिव ॥
अथाब्रवीत्तदा रामो रामं दाशरथिस्तदा ।
इदमारोपितं ब्र्हमन्किमन्यत्करवाणि ते ॥
तस्य रामो ददौ दिव्यं जामदग्न्यो महात्मनः ।
शरमाकर्णदेशान्तमयमाकृष्यतामिति ॥
लोमश उवाच ।
एतच्छ्रुत्वाऽब्रवीद्रामः प्रदीप्त इव मन्युना ।
श्रूयते क्षम्यते चैव दर्पपूर्णोसि भार्गव ॥
त्वया ह्यधिगतं तेजः क्षत्रियेभ्यो विशेषतः । पितामहप्रसादेन तेन मां क्षिपसि ध्रुवम् ।
पश्य मां स्वेन रूपेण चक्षुस्ते वितराम्यहम् ॥
ततो रामशरीरे वै रामः पश्यति भार्गवः ।
आदित्यान्सवसून्रुद्रान्साध्यांश्च समरुद्गणान् ॥
पितरो हुताशनश्चैव नक्षत्राणि ग्रहास्तथा ।
गन्धर्वा राक्षसा यक्षा नद्यस्तीर्थानि यानि च ॥
ऋषयो वालखिल्याश्च ब्र्हमभूताः सनातनाः ।
देवर्षयश्च कार्त्स्न्येन समुद्राः पर्वतास्तथा ॥
वेदाश्च सोपनिषदो वषट्कारैः सहाध्वरैः । चेतोमन्ति च सामानि धनुर्वेदश्च भारत ।
मेघवृन्दानि वर्षाणि विद्युतश्च युधिष्ठिर ॥
ततः स भगवान्विष्णुस्तं वै बाणं मुमोच ह ।
शुष्काशनिसमाकीर्णं महोल्काभिश्च भारत ॥
पांसुवर्षेण महता मेघवर्षैश्च भूतलम् ।
भूमिकम्पैश्च निर्घातैर्नादैश्च विपुलैरपि ॥
स रामं विह्वलं कृत्वा तेजश्चाक्षिप्य केवलम् ।
आगच्छज्ज्वलितो बाणो रामबाहुप्रचोदितः ॥
स तु विह्वलतां गत्वा प्रतिलभ्य च चेतनाम् ।
रामः प्रत्यागतप्राणः प्राणमद्विष्णुतेजसम् ॥
विष्णुना सोभ्यनुज्ञातो महेन्द्रमगमत्पुनः ।
भीतस्तु तत्रन्यवसद्ब्रीडितस्तु महातपाः ॥
ततः संवत्सरेऽतीते हृतौजसमवस्थितम् ।
निर्मदं दुःखितं दृष्ट्वा पितरो राममब्रुवन् ॥
न वै सम्यगिदं पुत्र विष्णुमासाद्य वैकृतम् ।
स हि पूज्यश्च मान्यश्च त्रिषु लोकेषु सर्वदा ॥
गच्छ पुत्रनदीं पुण्यां वधूसरकृताह्वयाम् ।
तत्रोपस्पृश्य तीर्थेषु पुनर्वपुरवाप्स्यसि ॥
दीप्तोदं नाम तत्तीर्थं यत्रते प्रतितामहः ।
भृगुर्देवयुगे राम तप्तवानुत्तमं तपः ॥
तत्तथा कृतवान्रामः कौन्तेय वचनात्पितुः ।
प्राप्तवांश्च पुनस्तेजस्तीर्थेऽस्मिन्पाण्डुनन्दन ॥
एतदीदृशकं तात रामेणाक्लिष्टकर्मणा । प्राप्तमासीन्महाराज विष्णुमासाद्य वै पुरा ॥

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि अष्टनवतितमोऽध्यायः ॥ 98 ॥

3-98-2 रामो जामदग्यः । हृतं दाशरथिरमेण ॥ 3-98-5 तस्य युधिष्ठिरस्य । तीर्थस् तीर्थे स्नातस्य ॥ 3-98-6 वषुः तेजः ॥ 3-98-9 दाशरथेः । कर्मणि षष्ठी ॥ 3-98-15 व्यपदेशेन उक्त्या ॥ 3-98-25 चेतोमन्ति चेतनावन्ति । आर्षं पदत्वप्रयुक्तं रुत्वम् । चेतस्वन्तीत्यपेक्षितम् ॥