अध्यायः 132
लोमशेन युधिष्ठिरंप्रति सरस्वत्यादिमाहात्म्यकथनम् ॥ 1 ॥ तथा
श्येनकपोतोपाख्यानकथनारम्भः ॥ 2 ॥
इह मर्त्यास्तनूस्त्यक्त्वा स्वर्गं गच्छन्ति भारत ।
मर्तुकामा नरा राजन्निहायान्ति सहस्रशः ॥
एवमाशीः प्रयुक्ता हि दक्षेण यजता पुरा ।
इह ये वै मरिष्यन्ति ते वै स्वर्गजितो नराः ॥
एषा सरस्वती रम्या दिव्या चौघवती नदी ।
एतद्विनशनं नाम सरस्वत्या विशांपते ॥
द्वारं निषादराष्ट्रस्य येषां दोषात्सरस्वती ।
प्रविष्टा पृथिवीं वीर मा निषादा हि मां विदुः ॥
एष वै चमसोद्भेदो यत्र दृश्या सरस्वती ।
यत्रैनामभ्यवर्तन्त दिव्याः पुण्याः समुद्रगाः ॥
एतत्सिन्धोर्महत्तीर्थं यत्रागस्त्यमरिंदम ।
लोपामुद्रा समागम्य भर्तारमवृणीत वै ॥
एतत्प्रकाशते तीर्थं प्रभासं भास्करद्युते ।
इन्द्रस्य दयितं पुण्यं पवित्रं पापनाशनम् ॥
एतद्विष्णुपदं नाम दृश्यते तीर्थमुत्तमम् ।
एषां रम्या विपाशा च नदी परमपावनी ॥
अत्र वै पुत्रशोकेन वसिष्ठो भगवानृषिः ।
बद्ध्वाऽत्मानं निपतितो विपाशः पुनरुत्थितः ॥
काश्मीरमण्डलं चैतत्सर्वपुण्यमरिंदम ।
महर्षिभिश्चाध्युषितं पश्येदं भ्रातृभिः सह ॥
यत्रौत्तराणां सर्वेषामृषीणां नाहुषस्य च ।
अग्नेश्चैवात्र संवादः काश्यपश्य च भारत ॥
एतद्द्वारं महाराज मानसस्य प्रकाशते ।
वर्षमस्य गिरेर्मध्ये रामेण श्रीमता कृतम् ॥
एष वातिकषण्डो वै प्रख्यातः सत्यविक्रमः ।
नात्यवर्तत यद्द्वारं विदेहादुत्तरं च यः ॥
इदमाश्चर्यमपरं देशेऽस्मिन्पुरुषर्षभ ।
क्षीणे युगे तु कौन्तेय शर्वस्य सह पार्षदैः ।
सहोमया च भवति दर्शनं कामरूपिणः ॥
अस्मिन्सरसि सत्रैर्वै चैत्रे मासि पिनाकिनम् ।
यजन्ते याजकाः सम्यक् परिवारं शुभार्थिनः ॥
अत्रोपस्पृश्य सरसि श्रद्दधानो जितेन्द्रियः ।
क्षीणपापः शुभाँल्लोकान्प्राप्नुते नात्र संशयः ॥
एष उज्जानको नाम पावकिर्यत्र शान्तवान् ।
अरुन्धतीसहायश्च वसिष्ठो भगवानृषिः ॥
ह्रदश्च कुशवानेष यत्र पद्मं कुशेशयम् ।
आश्रमश्चैव रुक्मिण्या यत्राशाम्यदकोपना ॥
समाधीनां समासस्तु पाण्डवेय श्रुतस्त्वया ।
तं द्रक्ष्यसि महाराज भृगुतुन्दं महागिरिम् ॥
वितस्तां पश्य राजेन्द्र सर्वपापप्रमोचनीम् ।
महर्षिभिश्चाध्युषितां शीततोयां सुनिर्मलाम् ॥
जलां चोपजलां चैव यमुनामभितो नदीम् ।
उशीनरो वै यत्रेष्ट्वा वासवादत्यरिच्यत ॥
तां देवसमितिं तस्य वासवश्च विशांपते ।
अभ्यागच्छन्नृपवरं ज्ञातुमग्निश्च भारत ॥
जिज्ञासमानौ वरदौ महात्मानमुशीनरम् ।
इन्द्रः श्येनः कपोतोऽग्निर्भूत्वा यज्ञेऽभिजग्मतुः ॥
उरुं राज्ञः समासाद्य कपोतः श्येनजाद्भयात् ।
शरणार्थी तदा राजन्निलिल्ये भयपीडितः ॥
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि द्वात्रिंशदधिकशततमोऽध्यायः ॥ 132 ॥
3-132-1 इह मर्त्यास्तपस्तप्त्वेति क. ध. पाठः ॥ 3-132-9
वद्वा पाशैरिति शेषः । विपाशः पाशहीनः । अतएव विपाशानाम ॥ 3-132-12 वर्षं
वसतिस्थानम् ॥ 3-132-13 यो रामः प्रख्यातः सत्यविक्रमश्च विदेहादुत्तरं च
यद्द्वारं यद्वर्षस्य द्वारं एषोऽनुभूयमानो वातिकषण्डो वातानीतः पद्मादिसमूहो
नात्यवर्तत । तेन रामेण कृतमिति पूर्वेणान्वयः ।
पद्मादेर्वातानीतस्यात्राप्रवेशाद्रामसामर्थ्यं प्रत्यक्षमाश्चर्यमित्यर्थः । एष
वाति मृकण्डो वै इति क. ध. पाठः ॥ 3-132-14 युगं पञ्चसंवत्सरात्मकं
तस्मिन्क्षीणे समाप्ते सति यदा सौरसावनबार्हस्पत्यनाक्षत्रचान्द्राः संवत्सरा
एककालं समाप्यन्ते स युगक्षयकालस्तस्मिन्नित्यर्थः ॥ 3-132-17 पावकिः स्कन्दः ।
शान्तवान् शमं प्राप । वसिष्टोपि शान्तवान् एष उज्जीतको नाम यवक्रीर्यत्र
शान्तवानिति क. ध. पाठः ॥ 3-132-18 कुशवान् जलवान्. अकोपना जितक्रोधा ॥ 3-132-19 समासः संक्षेपः । यस्मिन्दृष्टे समाधिफलं भवतीत्यर्थः ॥ 3-132-22
देवसमितिं राजसभाम् ॥ 3-132-24 निलिल्ये लीनः ॥