अध्यायः 152
हनुमता भीमाय समुद्रतरणकालिकपृथुतरनिजरूपप्रदर्शनपूर्वकं
चतुर्वर्णधर्मनिरूपणम् ॥ 1 ॥
पूर्वरूपमदृष्ट्वा ते न यास्यामि कथंचन ।
यदि तेऽहमनुग्राह्यो दर्शयात्मानमात्मना ॥
वैशंपायन उवाच ।
एवमुक्तस्तु भीमेन स्मितं कृत्वा प्लवंगमः ।
तद्रूपं दर्शयामास यद्वै सागरलङ्घने ॥
भ्रातुः प्रियमभीप्सन्वै चकार सुमहद्वपुः ।
`तद्रूपं यत्पुरा तस्य बभूवोदधिलङ्घने' ॥
देहस्तस्य ततोऽतीव वर्धत्यायामविस्तरैः ।
सद्रुमं कदलीषण्डं छादयन्नमितद्युतिः ॥
गिरिश्चोच्छ्रयमाक्रम्य तस्थौ तत्र च वानरः ।
समुच्छ्रितमहाकायो द्वितीय इव पर्वतः ॥
ताम्रेक्षणस्तीक्ष्णदंष्ट्रो भृकुटीकृतलोचनः ।
दीर्घं लाङ्गूलमाविध्य दिशो व्याप्य स्थितः कपिः ॥
तद्रूपं महदालक्ष्यभ्रातुः कौरवनन्दनः ।
विसिष्मिये तदा भीमो जहृषे च पुनः पुनः ॥
तमर्कमिव तेजोभिः सौवर्णमिव पर्वतम् ।
प्रदीप्तमिव चाकाशं दृष्ट्वा भीमो न्यमीलयत् ॥
आबभाषे च हनुमान्भीमसेनं स्मयन्निव ।
एतावदिह शक्तस्त्वं द्रुष्टुं रूपं ममानघ ॥
वर्धेऽहं चाप्यतो भूयो यावन्मे मनसेप्सितम् ।
भीम शत्रुषु चात्यर्थं वर्धते मूर्तिरोजसा ॥
वैशंपायन उवाच ।
तदद्भुतं महारौद्रं विन्ध्यपर्वतसन्निभम् ।
दृष्ट्वा हनूमतो वर्ष्म संभ्रान्तः पवनात्मजः ॥
प्रत्युवाच ततो भीमः संप्रहृष्टतनूरुहः ।
कृताञ्जलिरदीनात्मा हनूमन्तमवस्थितम् ॥
दृष्टं प्रमाणं विपुलं शरीरस्यास्य ते विभो ।
संहरस्व महावीर्य स्वयमात्मानमात्मना ॥
न हि शक्नोमि त्वां द्रष्टुं दिवाकरमिवोदितम् ।
अप्रमेयमनाधृष्यं मैनाकमिव पर्वतम् ॥
विस्मयश्चैव मे वीर सुमहान्मनसोऽद्य वै ।
यद्रामस्त्वयि पार्श्वश्थे स्वयं रावणमभ्यगात् ॥
त्वमेव शक्तस्तां लङ्कां सयोधां सहरावणाम् ।
स्वबाहुबलमाश्रित् विनाशयितुमञ्जसा ॥
न हि ते किंचिदप्राप्यं मारुतात्मज विद्यते ।
न चैव तव पर्याप्तो रावयणः सगणो युधि ॥
एवमुक्तस्तु भीमेन हनूमान्प्लवगोत्तमः ।
प्रत्युवाच ततो वाक्यं स्निग्धगम्भीरया गिरा ॥
एवमेतन्महाबाहो यथा वदसि भारत ।
भीमसेन न पर्याप्तो ममासौ राक्षसाधमः ॥
मया तु निहते तस्मिन्रावणे लोककण्टके ।
कीर्तिर्नश्येद्राघवस्य तत एतदुपेक्षितम् ॥
तेन वीरेण तं हत्वा सगणं राक्षसाधमम् ।
आनीता स्वपुरं सीता कीर्तिश्च स्थापिता नृषु ॥
तद्गच्छ विपुलप्रज्ञ भ्रातुः प्रियहिते रतः ।
अरिष्टं क्षेममध्वानं वायुना परिरक्षितः ॥
एष पन्थाः कुरुश्रेष्ठ सौगन्धिकवनाय ते ।
द्रक्ष्यसे धनदोद्यानं रक्षितं यक्षराक्षसैः ॥
न च ते तरसा कार्यः कुसुमापचयः स्वयम् ।
दैवतानि हि मान्यानि पुरुषेण विशेषतः ॥
बलिहोमनमस्कारैर्मन्त्रैश्च भरतर्षभ ।
दैवतानि प्रसादं हि भक्त्या कुर्वन्ति भारत ॥
मा तात साहसं कार्षीः स्वधर्मं परिपालय ।
स्वधर्मस्थापनं धर्मं बुध्यस्वागमयस्व च ॥
न हि धर्ममविज्ञाय वृद्धाननुपसेव्य च ।
धर्मो वै वेदितुं शक्यो बृहस्पतिसमैरपि ॥
अधर्मो यत्र धर्माख्यो धर्मश्चाधर्मसंज्ञितः ।
स विज्ञेयो विभागेन यत्रमुह्यन्त्यबुद्धयः ॥
आचारसंभवो धर्मो धर्माद्वेदाः समुत्थिताः ।
वेदैर्यज्ञाः समुत्पन्ना यज्ञैर्देवाः प्रतिष्ठिताः ॥
वेदाचारविधानोक्तैर्यज्ञैर्धार्यन्ति देवताः ।
बृहस्पत्युशनःप्रोक्तैर्नयैर्धार्यन्ति मानवाः ॥
बल्याकरवणिज्याभिः कृष्यर्थैर्योनिपोषणैः ।
वार्तया धार्यते सर्वं धर्मैरेतैर्द्विजातिभिः ॥
त्रयी वार्ता दण्डनीतिस्तिस्रो विद्या विजानताम् ।
ताभिः सम्यक्प्रवृत्ताभिर्लोकयात्रा विधीयते ॥
सा चेद्धर्मकृता न स्यात्रयीधर्ममृते भुवि ।
दण्डनीतिमृतेचापि निर्मर्यादमिदं भवेत् ॥
वार्ताधर्मे ह्यवर्तिन्यो विनश्येयुरिमाः प्रजाः ।
सुप्रवृत्तैस्त्रिभिर्ह्येतैर्धर्मैः सूयन्ति वै प्रजाः ॥
द्विजानाममृतं धर्मो ह्येकश्चैवैकवर्णकः ।
यज्ञाध्ययनदानानि त्रयः साधारणाः स्मृताः ॥
याजनाध्यापने चोभे ब्राह्मणानां परिग्रहः ।
पालनं क्षत्रियाणां वै वैश्यधर्मश्च पोषणम् ॥
शुश्रूषा च द्विजातीनां शूद्राणआं धर्म उच्यते ।
भैक्षहोमव्रतैर्हीनास्तथैव गुरुवासिताः ॥
क्षत्रधर्मोऽत्रकौन्तेय तव धर्मोऽत्र रक्षणम् ।
स्वधर्मं प्रतिपद्यस्व विनीतो नियतेन्द्रियः ॥
वृद्धैः संमन्त्र्य सद्भिश्च बुद्धिमद्भिः श्रुतान्वितैः ।
आस्थितः शास्तिदण्डेन व्यसनी परिभूयते ॥
निग्रहानुग्रहैः सम्यग्यदा नेता प्रवर्तते ।
तदा भवन्ति लोकस्य मर्यादाः सुव्यवस्थिताः ॥
तस्माद्देशे च दुर्गे च शत्रुमित्रबलेषु च ।
नित्यं चारेण बोद्धव्यं स्थानं वृद्धिः क्षयस्तथा ॥
राज्ञामुपायश्चारश्च बुद्धिमन्त्रपराक्रमाः ।
निग्रहप्रग्रहौ चैव दाक्ष्यं वै कार्यसाधकम् ॥
साम्ना दानेन भेदेन दण्डेनोपेक्षणेन च ।
साधनीयानि कार्याणि समासव्यासयोगतः ॥
मन्त्रमूला नयाः सर्वेचाराश्च भरतर्षभ ।
सुमन्त्रितनयैः सद्भिस्तद्विधैः सह मन्त्रयेत् ॥
स्त्रिया मूढेन बालेन लुब्धेन लघुनाऽपि वा ।
न मन्त्रयीत गुह्यानि येषु चास्पनदलक्षणम् ॥
मन्त्रयेत्सह विद्वद्भिः शक्तैः कर्माणि कारयेत् ।
स्निग्धैश्च नीतिविन्यासैर्मूर्खान्सर्वत्र वर्जयेत् ॥
धार्मिकान्धर्मकार्येषु अर्थकार्येषु पण्डितान् ।
स्त्रीषु क्लीबान्नियुञ्जीत क्रूरान्क्रूरेषु कर्मसु ॥
स्वेभ्यश्चैव परेभ्यश्च कार्याकार्यसमुद्भवा ।
बुद्धिः कर्मसु विज्ञेया रिपूणां च बलाबलम् ॥
बुद्ध्या स्वप्रतिपन्नेषु कुर्यात्साधुष्वनुग्रहम् ।
निग्रहं चाप्यशिष्टेषु निर्मर्यादेषु कारयेत् ॥
निग्रहे प्रग्रहे सम्यग्यदा राजा प्रवर्तते ।
तदा भवति लोकस्य मर्यादा सुव्यवस्थिता ॥
एष तेऽभिहितः पार्थ घोरो धर्मो दुरन्वयः ।
तं स्वधर्मविभागेन विनयस्थोऽनुपालय ॥
तपोधर्मदमेज्याभिर्विप्रा यान्ति यथा दिवम् ।
दानातिथ्यक्रियाधर्मैर्यान्ति वैश्याश्च सद्गतिम् ॥
`द्विजशुश्रूषया शूद्रा लभन्ते गतिमुत्तमाम्' ।
क्षत्रं याति तथा स्वर्गं भुवि निग्रहपालनैः ॥
सम्यक्प्रणीतदण्डा हि कामद्वेपविवर्जिताः ।
अलुब्धा विगतक्रोधाः सतां यान्ति सलोकतां ॥
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि द्विपञ्चाशदधिकशततमोऽध्यायः ॥
3-152-5 गिरिश्च विन्ध्यगिरिरिव । इवार्थे चः ॥ 3-152-17
पर्याप्तः समर्थः ॥ 3-152-22 अरिष्टं निर्विघ्नम् ॥ 3-152-24 पुरुषेण
मर्त्येन ॥ 3-152-26 आगमयस्व मात्वरिष्ठाः ॥ 3-152-28 दुर्जनवधोऽधर्मोपि
धर्मएव । परोपघातकं सत्यं धर्मोपि अधर्मएव ॥ 3-152-30 यज्ञैर्देवानां नीत्या
मनुष्याणां च स्थितिरित्यर्थः ॥ 3-152-31 वार्ता जीविकार्थावृत्तिः ॥ 3-152-32 साच क्रमेण ब्राह्मणस्य त्रयीयाजनाध्यापनादिः । वैश्यस्
वार्तापण्यादिः । क्षत्रियस्य दण्डादिः ॥ 3-152-33 सा लोकयात्रा ॥ 3-152-37
गुरौ त्रिवर्णे वासितं वासो येषां ते ॥ 3-152-39 आस्थितोऽनुगृहीतः ॥ 3-152-41
स्थानं सिद्धसंरक्षणम् ॥ 3-152-48 स्वेभ्यश्चारेभ्यः परेभ्य उत्कोचादिना
लोभितेभ्यः ॥ 3-152-49 बुद्ध्या जीवनाशया ।प्रतिपन्नेषु शरणागतेषु ॥ 3-152-51
घोरो धर्मो राजधर्मः ॥