अध्यायः 247
चित्रसेनेनार्जुनंप्रति दुर्योधनबन्धने कारणाभिधानपूर्वकं
युधिष्ठिरसमीपगमनम् ॥ 1 ॥ युधिष्ठिरेण गन्धर्वैर्दुर्योधनादीनां
बन्धाद्विमोचनम् ॥ 2 ॥ ततो दुर्योधनेन स्वपुरंप्रति प्रस्थानम् ॥ 3 ॥
ततोऽर्जुनश्चित्रसेनं प्रहसन्निदमब्रवीत् ।
मध्ये गन्धर्वसैन्यानां महेष्वासो महाद्युतिः ॥
किं ते व्यवसितं वीर कौरवाणां विनिग्रहे ।
किमर्थं च सदारोऽयं निगृहीतः सुयोधनः ॥
चित्रसेन उवाच ।
विदितोऽयमभिप्रायस्तत्रस्थेन दुरात्मनः ।
इन्द्रेण धार्तराष्ट्रस्य सकर्णस्य धनंजय ॥
वनस्थान्भवतो ज्ञात्वा क्लिश्यमानाननर्हवत् ।
समस्थो विषमस्थांस्तान्द्रक्ष्यामीत्यनवस्थितान् ॥
इमेऽवहसितुं प्राप्ता द्रौपदीं च यशस्विनीम् ।
ज्ञात्वा चिकीर्षितं चैषां मामुवाच सुरेश्वरः ॥
गच्छ दुर्योधनं बद्ध्वा सहामात्यमिहानय ।
धनंजयश्च ते रक्ष्यः रसह भ्रातृभिराहवे ॥
स च प्रियः सखा तुभ्यं शिष्यश् तव पाण्डवः ।
वचनाद्देवराजस् ततोऽस्मीहागतो द्रुतम् ॥
अयं दुरात्मा बद्धश्च गमिष्यामि सुरालयम् ।
नेष्याम्येनं कदुरात्मानं पाकशासनशासनात् ॥
अर्जुन उवाच ।
उत्सृज्यतां चित्रसेन भ्राताऽस्माकं सुयोधनः ।
धर्मराजस्य संदेशान्मम चेदिच्छसि प्रियम् ॥
चित्रसेन उवाच ।
पापोऽयं नित्यसंदुष्टो न विमोक्षणमर्हति ।
प्रलब्धा धर्मराजस्य कृष्णायाश्च धनंजय ॥
नेदं चिकीर्षितं तस् कुन्तीपुत्रो युधिष्ठिरः ।
जानाति धर्मराजो हि श्रुत्वा कुरु यथेच्छसि ॥
वैशंपायन उवाच ।
ते सर्व एव राजनमभिजग्मुर्युधिष्ठिरम् ।
अभिगम्य च तत्सर्वं शशंसुस्तस्य चेष्टितम् ॥
अजातशत्रुस्तच्छ्रुत्वा गन्धर्वस्य वचस्तदा ।
मोक्षयामास तान्सर्वान्गन्धर्वान्प्रशशंस च ॥
`चित्रसेनस्तदा वाक्यमुवाच प्रौढया गिरा ।
मुञ्चध्वंसानुजामात्यं सदारं च सुयोधनम् ॥
गन्धर्वास्तु वचः श्रुत्वा चित्रसेनस्य वै द्रुतम् ।
राजानं मोचयामासुर्बद्धं निगडबन्धनैः ॥
सदारं सानुगामात्यं बालजालमयेन ये ।
लुछन्तश्चापि ते सर्वे युधिष्ठिरसमीपतः ॥
पतिता लज्जिताश्चैव तस्थुश्चाधोमुखास्तदा ।
युधिष्ठिरोपि दयया तान्समीक्ष्य तथागतान् ॥
दिष्ट्या भवद्भिर्बलिभिः शक्तैः सर्वैर्न हिंसितः ।
दुर्वृत्तो धार्तराष्ट्रोऽयं सामात्यज्ञातिबान्धवः ॥
उपकारो मसांस्तात कृतोऽयं मम खेचर ।
कुलं न परिभूतं मे मोक्षेणास्य दुरात्मनः ॥
आज्ञापयध्वमिष्टानि प्रीतं मां दर्शनेन वः ।
प्राप्य सर्वानभिप्रायांस्ततो व्रजत मा चिरम् ॥
अनुज्ञातास्तु गन्धर्वाः पाण्डुपुत्रेण धीमता ।
सहाप्सरोभिः संहृष्टाश्चित्रसेनमुखा ययुः ॥
`देवलोकं ततो गत्वा गन्धर्वैः सहितस्तदा ।
न्यवेदयच्च तत्सर्वं चित्रसेनः शतक्रतोः' ॥
देवराडपि गन्धर्वान्मृतांस्तान्समजीवयत् ।
दिव्येनामृतवर्षेण ये हताः कौरवैर्युधि ॥
ज्ञातींस्तानवमुच्याथ राजदारांश्च सर्वशः ।
कृत्वा च रदुष्करं कर्म प्रीतियुक्ताश्च पाण्डवाः ॥
सस्त्रीकुमारैः कुरुभिः पूज्यमाना महारथाः ।
बभ्राजिरे महात्मानः क्रतुमध्ये यथाऽग्नयः ॥
ततो दुर्योधनं मुक्तं भ्रातृभिः सहितस्तदा ।
युधिष्ठिरस्तु प्रणयादिदं वचनमब्रवीत् ॥
रमा स्म तात पुनः कार्षीरीदृशं साहसं क्वचित् ।
न हि साहसकर्तारः सुखमेघन्ति भारत ॥
स्वस्तिमान्सहितः सर्वैर्ब्रातृभिः कुरुनन्दन ।
गृहान्व्रज यथाकामं वैमनस्यं च मा कृथाः ॥
वैशंपायन उवाच ।
पाण्डवेनाभ्यनुज्ञानो राजा दुर्योधनस्तदा ।
अभिवाद्य धर्मपुत्रं गतेन्द्रिय इवातुरः ।
विदीर्यमाणो व्रीडावाञ्जगाम नगरं प्रति ॥
तस्मिन्गते कौरवेये कुन्तीपुत्रो युधिष्ठिरः ।
भ्रातृभिः सहितो वीरः पूज्यमानो द्विजातिभिः ॥
तपोधनैश्च तैः सर्वैर्वृतः शक्र इवामरैः ।
तथा द्वैतवने तस्मिन्विजहार मुदा युतः ॥
इति श्रीमन्महाभारते अरण्यपर्वणि घोषयात्रापर्वणि
सप्तचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 247 ॥
3-247-10 प्रलब्धा वञ्चकः ॥ 3-247-11 इदं मदुक्तं समस्थो
विषमस्थांस्तान् द्रक्ष्यामीति ॥ 3-247-17 युधिष्ठिरोपीति ।
गन्धर्वान्प्रत्युवाचेति शेषः ॥ 3-247-28 वैमनस्यं वैरं केनचित्सह मा कृथाः मा
कुरु ॥