अध्यायः 001
विराटसभां प्रविष्टेषु राजसु श्रीकृष्णेन
पाण्डववृत्तान्तकथनपूर्वकं धृतराष्ट्रंप्रति दूतप्रेषणनिर्धारणम् ॥ 1 ॥
श्रीवेदव्यासाय नमः ।
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥
वैशंपायन उवाच ।
कृत्वा विवाहं तु कुरुप्रवीरा-
स्तदाऽभिमन्योर्मुदिताः सपक्षाः ।
विश्रम्य रात्रावुषसि प्रतीताः
सभां विराटस्य ततोऽभिजग्मुः ॥
सभा तु सा मत्स्यपतेः समृद्धा
मणिप्रवेकोत्तमरत्नचित्रा ।
न्यस्तासना माल्यवती सुगन्धा
तामभ्ययुस्ते नरराजवर्याः ॥
अथासनान्याविशतां पुरस्ता-
दुभौ विराटद्रुपदौ नरेन्द्रौ ।
वृद्धौ च मान्यौ पृथिवीपतीनां
पित्रा समं तमजनार्दनौ च ॥
पाञ्चालराजस्य समीपतस्तु
शिनिप्रवीरः सहरौहिणेयः
मत्स्यस्य राज्ञस्तु सुसन्निकृष्टौ
जनार्दनश्चैव युधिष्ठिरश्च ॥
सुताश्च सर्वे द्रुपदस्य राज्ञो
भीमार्जुनौ माद्रवतीसुतौ च ।
प्रद्युम्नसाम्बौ च युधि प्रवीरौ
विराटपुत्रैश्च सहाभिमन्युः ॥
सर्वे च शूराः पितृभिः समाना
वीर्येण रूपेण बलेन चैव ।
उपाविशन्द्रौपदेयाः कुमाराः
सुवर्णचित्रेषु वरासनेषु ॥
तथोपविष्टेषु महारथेषु
विराजमानाभरणाम्बरेषु
रराज सा राजवती समृद्धा
ग्रहैरिव द्यौर्विमलैरुपेता ॥
ततः कथास्ते समवाययुक्ताः
कृत्वा विचित्राः पुरुषप्रवीराः ।
तस्थुर्मुहूर्तं परिचिन्तयन्तः
कृष्णं नृपास्ते समुदीक्षमाणाः ॥
कथान्तमासाद्य च माधवेन
संघट्टिताः पाण्डवकार्यहेतोः ।
ते राजसिंहाः सहिता ह्यश्रृण्व-
न्वाक्यं महार्थं सुमहोदयं च ॥
श्रीकृष्ण उवाच ।
सर्वैर्भवद्भिर्विदितं यथाऽयं
युधिष्ठिरः सौबलेनाक्षवत्याम् ।
जितो निकृत्याऽपहृतं च राज्यं
वनप्रवासे समयः कृतश्च ॥
शक्तैर्विजेतुं तरसा महीं च
सत्ये स्थितैः सत्यरथैर्यथावत् ।
पाण्डोः सुतैस्त्रद्रुतमुग्ररूपं
वर्षाणि षट् सप्त च चीर्णमग्र्यैः ॥
त्रयोदशश्चैव सुदुस्तरोऽय-
मज्ञायमानैर्भवतां समीपे ।
क्लेशानसह्यान्विविधान्सहद्भि-
र्महात्मभिश्चापि वने निविष्टम् ।
एतैः परप्रेष्यनियोगयुक्तै-
रिच्छद्भिराप्तं स्वकुलेन राज्यम् ॥
एवं गते धर्मसुतस्य राज्ञो
दुर्योधनस्यापि च यद्धितं स्यात् ।
तच्चिन्तयध्वं कुरुपाण्डवानां
धर्म्यं च युक्तं च यशस्करं च ॥
अधर्मयुक्तं न च कामयेत
राज्यं सुराणामपि धर्मराजः ।
धर्मार्थयुक्तं तु महीपतित्वं
ग्रोमेऽपि कस्मिंश्चिदयं बुभूषेत् ॥
पित्र्यं हि राज्यं विदितं नृपाणां
यथाऽपकृष्टं धृतराष्ट्रपुत्रैः ।
मिथ्योपचारेण यथा ह्यनेन
कृच्छ्रं महत्प्राप्तमसह्यरूपम् ॥
न चापि पार्थो विजितो रणे तैः
स्वतेजसा धृतराष्ट्रस्य पुत्रैः ।
तथाऽपि राजा सहितः सुहृद्भि-
रभीप्सतेऽनामयमेव तेषाम् ॥
यत्तु स्वयं पाण्डुसुतैर्विजित्य
समाहृतं भूमिपतीन्प्रपीड्य
तत्प्रार्थयन्ते पुरुषप्रवीराः
कुन्तीसुता माद्रवतीसुतौ च ॥
बलाभियुक्तैर्विविधैरुपायैः
संप्रार्थिता हन्तुममित्रसङ्घैः ।
राज्यं जिहीर्षद्भिरसद्भिरुग्रैः
सर्वं च तद्वो विदितं यथावत् ॥
तेषां च लोभं प्रसमीक्ष्य वृद्धं
धर्मज्ञतां चापि युधिष्ठिरस्य ।
संबन्धितां चापि समीक्ष्य तेषां
मतिं कुरुध्वं सहिताः पृथक्व ।
इमे च सत्येऽभिरताः सदैव
तं पालयित्वा समयं यथावत् ।
अतोऽन्यथा तैरुपचर्यमाणा
हन्युः समेतान्धृतराष्ट्रपुत्रान् ॥
तैर्विप्रकारं च निशम्य कार्ये
सुहृज्जनास्तान्परिवारयेयुः ।
युद्धेन बाधेयुरिमांस्तथैवं
तैर्बाध्यमाना युधि तांश्च हन्युः ॥
तथाऽपि नेमेऽल्पतयाऽसमर्था-
स्तेषां जयायेति भवेन्मतिर्वः ।
समेत्य सर्वे सहिताः सुहृद्भि-
स्तेषां विनाशाय यतेयुरेव ॥
दुर्योधनस्यापि मतं यथाव-
न्न ज्ञायते किं नु करिष्यतीति
अज्ञायमाने च मते परस्य
मन्त्रस्य पारं कथमभ्युपेमः ॥
तस्मादितो गच्छतु धर्मशीलः
शुचिः कुलीनः पुरुषोऽप्रमत्तः ।
दूतः समर्थः प्रशमाय तेषां
राज्यार्धदानाय युधिष्ठिरस्य ॥
निशम्य वाक्यं तु जनार्दनस्य
धर्मार्थयुक्तं मधुरं समं च ।
समाददे वाक्यमथाग्रजोऽस्य
संपूज्य वाक्यं तदतीव राजन् ॥ ॥
इति श्रीमन्महाभारते उद्योगपर्वणि सेनोद्योगपर्वणि प्रथमोऽध्यायः ॥
5-1-1 प्रतीताः प्रबुद्धाः ॥ 1 ॥ 5-1-3 आविशतामुपविष्टौ ।
पित्रा बसुदेवेन ॥ 3 ॥ 5-1-10 अक्षवत्यां द्यूतक्रीडायाम् ॥ 10 ॥ 5-1-11
सत्यं रथवदारोद्धं योग्यं योषाम् ॥ 11 ॥ 5-1-14 बभूषेत् प्राप्तुमिच्छेत् ।
तङभाव आर्षः ॥ 14 ॥ 5-1-16 अनामयं कुशलम् ॥ 16 ॥ 5-1-20 अतो
राज्यार्धप्रदानात् ॥ 20 ॥