अध्यायः 041

धृतराष्ट्रेण पुनर्धर्मरहस्यकथनं चोदितेन विदुरेण स्वस्य शूद्रयोनिजातत्वेन तत्कथनानौचित्यकथनम् ॥ 1 ॥ तथा स्मरण मात्रसंनिहितं सनत्सुजातंप्रति धृतराष्ट्राय तत्वोपदेशप्रार्थना ॥ 2 ॥

धृतराष्ट्र उवाच ।
अनुक्तं यदि ते किञ्चिद्वाचा विदुर विद्यते ।
तन्मे शुश्रूषतो ब्रूहि विचित्राणि हि भाषसे ॥
विदुर उवाच ।
धृतराष्ट्र कुमारो वै यः पुराणः सनातनः ।
तनत्सुजातः प्रोवाच मृत्युर्नास्तीति भारत ॥
स ते गुह्यान्प्रकाशांश्च सर्वान्हृदयसंश्रयान् ।
प्रवक्ष्यति महाराज सर्वबुद्धिमतां वरः ॥
धृतराष्ट्र उवाच ।
किं त्वं न वेद तद्भूयो यन्मे ब्रूयात्सनातनः ।
त्वमेव विदुर ब्रूहि प्रज्ञाशेषोऽस्ति चेत्तव ॥
विदुर उवाच ।
शूद्रयोनावहं जातो नातोऽन्यद्वक्तुमुत्सहे ।
कुमारस्य तु याबुद्धिर्वेद तां शाश्वतीमहम् ॥
ब्राह्मीं हि योनिमापन्नः सगुह्यमपि यो वदेत् ।
न तेन गर्ह्यो देवानां तस्मादेतद्ब्रवीमि ते ॥
धृतराष्ट्र उवाच ।
ब्रवीहि विदुर त्वं मे पुराणं तं सनातनम् ।
कथमेतेन देहेन स्यादिहैव समागमः ॥
वैशंपायन उवाच ।
चिन्तयामास विदुरस्तभृषिं शंसितव्रतम् ।
स च तच्चिन्तितं ज्ञात्वा दर्शयामास भारत ॥
स चैनं प्रतिजग्राह विधिदृष्टेन कर्मणा ।
सुखोपविष्टं विश्रान्तमथैनं विदुरोऽब्रवीत् ॥
भगवन्संशयः कश्चिद्धृतराष्ट्रस्य मानसः ।
यो न शक्यो मया वक्तुं त्वमस्मै वक्तुमर्हसि ॥
यं श्रत्वाऽयं मनुष्येन्द्रः सर्वदुःखातिगो भवेत् ॥
लाभालाभौ प्रियद्वेष्यौ यथैनं न जरान्तकौ । विषहेरन्भयामर्षौ श्रुत्पिपासे मदोद्भवौ ।
अरतिश्चैव तन्द्री च कामक्रोधौ क्षयोदयौ ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि सनत्सुजातपर्वणि एकचत्वारिंशोऽध्यायः ॥

5-41-2 सनुत्कुम्मरः प्रोवाचेति कo पाठः ॥ 5-41-4 तमहं नाभिजानामि तत्वतो वै सनातनमिति कo पाठo ॥ 5-41-12 विषहेरन् बाधेरन् । अमर्षः असहिष्णुता । उद्भव उत्कृष्टैश्वर्यं ॥