अध्यायः 017
युद्धाय कुरुसेनानिर्याणम् ॥ 1 ॥
इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि सप्तदशोऽध्यायः ॥
6-17-2 मघाविषयगः सोमस्तद्दिनं प्रत्यपद्यतेति । मघा पित्र्यां नक्षत्रं तस्य विषयो देशः पितृलोकस्तद्गतः सोमः । कुरुपाण्डवयुद्धारम्भदिनमुक्तं भारतसावित्र्याम्-हेमन्ते प्रथमे मासि शुक्लपक्षे त्रयोदशीम् । प्रवृत्तं भारतं युद्धं नक्षत्रे यमदैवते । प्रथमे मार्गशीर्षे । अत्र त्रयोदशीशब्देन तद्युक्ता चतुर्दश्येव ग्राह्या । अर्जुनेन हतो भीष्मो माघमासेऽसिताष्टमीति । त्रयोदश्यां तु मध्याह्ने भारद्वाजो निपातित इति । तत्रैव युद्धस्य दशमे पञ्चदशे चाह्नि तयोर्भीष्मद्रोणयोरष्टमीत्रयोदशीसंयोगदर्शनात् । अत्र पौषेति माघशब्दो मकरायनाभिप्रायेण । तदानीं तत्संभवात् असिताष्टमीति छेदः । अन्यथा सप्तमीद्वादश्योरेव तयोर्हननं प्राप्नोति । यत्तु अमावास्यायां दुर्योधनहननं तत्रैवोक्तं तत्राप्यमावास्याशब्द इष्टिदिने प्रतिपद्येव प्रयुक्तो वेदितव्यः । यमदैवते इति भरणी न ग्राह्य किंतु युग्मदैवतं मृगशीर्षमेव ग्राह्यम् । तस्य हि पूर्वदलं शुक्रदैवत्यत्वादासुरं उत्तरार्थं बुधदैवत्यत्वाद्दैव्यम् । तेन तत्रासुराणामुपरमो देवानामभ्युदयश्च सिद्ध्यति । किंच-चत्वारिंशदहान्यद्य द्वे च मे निःसृतस्य वै । पुष्येण संप्रयातोस्मि श्रवणे पुनरागत इति युद्धारम्भादष्टादशेऽह्नि तीर्थयात्रात आगतस्य बलदेवस्य वचनात् श्रवणे युद्धसमाप्तिर्दृश्यते । ततः प्राचीनेऽष्टादशर्क्षे मृगशीर्ष एव युद्धारम्भः संभवति नत्वेकविंशे भरण्याम् । अष्टादशदिनमध्ये नक्षत्रत्रयक्षयस्य कल्पयितुमयुक्तत्वात् कार्तिकी कृत्तिकायोगानुपातेन चतुर्दश्यां मृगस्यैव संभावनाच्च । एतेन युद्धारम्भं प्रकृत्य- मघाविषयगः सोमस्तद्दिनं प्रत्यपद्यतेति भीष्मपर्वणि सञ्जयवाक्यान्मघायां युद्धारम्भ इत्यपि निरस्तम् । बलदेववाक्यविरुद्धत्वात् । शब्दार्थस्तु मघापदेन तत्सहचराः पितरो लक्ष्यन्ते । तेन युद्धे मृतानां उत्तमदेहप्रदानार्थं चन्द्रस्तदा पितृलोके सन्निहितोऽभूदिति । स्वर्गिणां दिव्यदेहलाभश्चन्द्राधीन इति शास्त्रप्रसिद्धेः । तथा द्वादश्यां रात्रियुद्धे चन्द्रोदयकाले-त्रिभागमात्रशेषायां रात्रौ युद्धमवर्ततेत्युक्तम् तत्र त्रिभागेत्यस्य त्रिमुहूर्तशेषायामित्यर्थः । तथा-अष्टपञ्चाशतं रात्र्यः शयानस्याद्य मे गताः इति भीष्मवचनं तु-माघोऽयं समनु प्राप्तः- त्रिभगमात्रः पक्षोऽयं इति वाक्यशेषानुसारात् । अशतं शतहीनं यथा स्यात्तथा अष्टपञ्च अष्टपञ्चाशद्रात्रयो व्यतीता इति व्याख्येयम् । विलोमशोधनात् अष्टपञ्चाशदूनं शतं रात्रयो द्वाचत्वारिंशद्रात्रयो व्यतीता इत्यर्थः । तथाच पौषकृष्णाष्टमीतो माघशुक्लपञ्चम्यां तावती दिनसंख्या पूर्यते पक्षस्य च तृतीयो भागो गतो भवति । ततत्राप्येकतिथिक्षयात् पञ्चम्याः द्विचत्वारिंशत्तमत्वं ज्ञेयम् । शेषो भवितुमर्हतीत्यत्र कार्यशेषो देहत्यागादिरेव शेषो नतु पक्षशेष इति व्याख्या ज्ञेया । तत्रायं निष्कर्षः । कार्तिकशुक्लद्वादश्यां रेवत्यां कृष्णप्रयाणम् । ततो निष्कर्षः । कार्तिकशुक्लद्वादश्यां रेवत्यां कृष्णप्रयाणम् । ततो मार्गशीर्षकृष्णपञ्चम्यां पुष्ये सेनयोर्निर्याणम् । ततः पञ्चम्यां उपरि षष्ठीमारभ्य सप्तदिनानि गणयित्वा तदुपर्यष्टमेऽह्नि अमावास्या भविष्यतीत्यनेन त्रयोदशदिनात्मकोऽयं कृष्णपक्षो महोत्पातजनक इति सूचितम् । क्षीणयोश्च तिथ्योः पक्षान्तरे पुनर्वृद्ध्या संख्यापूरणेभवतीति मार्गशीर्षकृष्णपञ्चमीमारभ्य पौषशुक्लप्रतिपत् द्विचत्वारिंशी तिथिर्भवतीति बलदेववाक्योक्ता दिनसंख्या नक्षत्रसंख्या चानुगृहीत भवति । यत्तु- सप्तमाच्चापि दिवसादमावाक्या भविष्यति । संग्रामयोजयेत्तत्र तां ह्याहुः शक्रदैवताम् । प्रयाध्वं वै कुरुक्षेत्रं पुष्यो द्येति पुनःपुनरिति दुर्योधनवाक्यम् तत्र संग्राममित्यनेन संग्रामे जयसाधनं धाराबन्धादिकं तस्यां योजयेदित्युक्तम् । शक्रदैवतामित्यनेन तस्यां ज्येष्ठानक्षत्रयोग उच्यते । सच तिथिद्वयक्षयात्तत्रासंभवन्नपि तत्र तिथिवदेव नक्षत्रक्षयाद्वा तिथिनक्षत्रयोराद्यन्तयोगाद्वा ज्ञेय इति सर्वं समञ्जसम् । महाग्रहाः राहुकेतो रुपग्रहत्वात्सप्तैव ॥ 6-17-4 ववाशिरे शब्दं कृतवन्तः ॥ 6-17-11 अयोनिधनं अयसा शस्त्रेण मरणम् ॥ 6-17-18 तालेन ध्वजभूतेन ॥ 6-17-20 गोवासनः तद्द्रेश्यः ॥ 6-17-29 वराहेण केतुमुख्येनेति संबन्धः ॥ 6-17-34 निष्केण कण्ठाभरणेन ॥