अध्यायः 062

नारदेन सृञ्जयम्प्रति मान्धातृचरिताभिधानम् ॥ 1 ॥

नारद उवाच ।
मान्धतारं यौवनाश्वं मृतं सृञ्जय शुश्रुम ।
यं देवावश्विनौ गर्भे पितुः पार्श्वे चकर्षतुः ॥
मृगयां विचरन्राजा तृषितः क्लान्तवाहनः ।
धूमं दृष्ट्वाऽगमत्सत्रं पृषदाज्यमवाप सः ॥
तं दृष्ट्वा युवनाश्वस्य जठरे रविसन्निभम् ।
गर्भं निरूहतुर्देवावश्विनौ भिषजां वरौ ॥
तं दृष्ट्वा पितुरुत्सङ्गे शयानं देववर्चसम् ।
अन्योन्यमब्रुवन्देवाः कमयं धास्यतीति वै ॥
मामेवायं धयत्वङ्ग इति ह स्माह वासवः ।
ततोङ्गुलिभ्यो हीन्द्रस्य प्रादुरासीत्पयोऽमृतम् ॥
मां धास्यतीति कारण्याद्यदिन्द्रो ह्यन्वकम्पयत् ।
तस्मात्तु मान्धातेत्येवं नाम तस्याद्भुतं कृतम् ॥
ततस्तु धारां पयसो घृतस्य च महात्मनः ।
तस्यास्ये यौवनाश्वस्य पाणिरिन्द्रस्य चास्रवत् ॥
अपिबत्पाणिमिन्द्रस्य स चाप्यह्गाऽभ्यवर्धत ।
सोऽभवद्द्वादशसमो द्वादशाहेन वीर्यवान् ॥
इमां च पृथिवीं कृत्स्नामेकाह्ना स व्यजीजयत् ।
धर्मात्मा धृतिमान्वीरः सत्यसन्धो जितेन्द्रियः ॥
जनमेजयं सुधन्वानं गयं पूरुं बृहद्रथम् ।
असितं च नृगं चैव मान्धाता मानवोऽजयत् ॥
उदेति च यतः सूर्यो यत्र च प्रतितिष्ठति ।
तत्सर्वं यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते ॥
सोऽश्वमेधशतैरिष्ट्वा राजसूयशतेन च ।
अददद्रोहितान्मत्स्यान्ब्राह्मणेभ्यो विशाम्पते ॥
हैरण्यान्योजनोत्सेधानायताञ्शतयोजनम् ।
बहुप्रकारान्सुस्वादून्भक्ष्यभोज्यान्नपर्वतान् ॥
अतिरिक्तं ब्राह्मणेभ्यो भुञ्जानो हीयते जनः ॥
भक्ष्यान्नपाननिचयाः शुशुभुस्त्वन्नपर्वताः ।
घृतहदाः सूपपङ्का दधिफेनां गुडोदकाः ॥
रुरुधुः पर्वतान्नद्यो मधुक्षीरवहाः शुभाः ।
देवासुरा नरा यक्षा गन्धर्वोरगपक्षिणः ॥
विप्रास्तत्रागताश्चासन्वेदवेदाङ्गपारगाः ।
ब्राह्मणा ऋषयश्चापि नासंस्तत्राविपश्चितः ॥
समुद्रान्तां वसुमतीं वसुपूर्णां तु सर्वतः ।
स तां ब्राह्मणसात्कृत्वा जगाम स्वान्गृहान्प्रति ॥
`राजाऽपि विविधैरिष्ट्वा यज्ञैर्विविधदक्षिणैः' ।
गतः पुण्यकृतां लोकान्व्याप्य स्वयशसा दिशः ॥
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया । पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः ।
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत् ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये द्विषष्टितमोऽध्यायः ॥ 62 ॥

5-62-6 तस्मान्मान्धातरित्येवं इति क.पाठः ॥ 5-62-8 द्वादशसमो द्वादशवार्षिकः । शय इति पाठे द्वादशहस्तः । व्यजीजयद्विजितवान् ॥ 5-62-13 रोहितान् लोहितभूप्रदेशान्पद्मरागखनिमतो वा मत्स्यान्देशविशेषान् । हैरण्यान् स्वर्णाकरयुक्तान् । जनोत्सेधान् जनेषु उत्सेध उच्छ्रायो येषां तान् । मत्स्यदेशोत्पन्ने हि नद्यावद्यापि परम्परया पूर्वापरौ समुद्रौ गच्छत इति तेषामुच्छ्रितत्वं प्रसिद्धम् । रोहितानश्वान् इति क.ङ.पाठः ॥ 5-62-14 अतिरिक्तमवशिष्टं भुञ्जानो जन एव हीयते तत्वन्नमित्यर्थः ॥ 5-62-62 द्विषष्टितमोऽध्यायः ॥

श्रीः